Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 952
________________ १७ सर्गः] हीरसौभाग्यम् । ८९१ ताद्याः पञ्चेन्द्रिया जीवा आलेख्ये चित्रे शेषत्वमवशिष्टतां न तु प्राणेनतामवापिता मा. रिताः । तथा कैवर्तकेनेव धीवरेणेव पयश्चरा जलचारिणो जीवास्ते पञ्चेन्द्रिया मत्स्यनकचक्रपाठीनपीठपाहमकरायाः कथासु वार्तासु आख्यानसंबन्धेषु शेषलमवशिष्टतामवापिता लम्भिताः । निहता इत्यर्थः । हिंसायां सर्वत्र जन्मान्तरापादनम् । अस्मिन् जन्मनि तु संयतलात्तदभाव एवेति तात्पर्यम् ॥ अर्हन्निदेशादितसान्द्रचन्द्रचन्द्रातपोद्वेलकृपापयोधौ । मीनायमानेन मुनीन्दुनेव स्वात्मेव नामानि गणोऽङ्गभाजाम् ॥१३७॥ पुनर्मया अङ्गभाजां प्राणिनां गणः समूहःखात्मेव निजजीव इन नामानि न गणितः । इदमपि प्राग्जन्मापेक्षयैव नास्मिअन्मनीति शेषः । तदेव वक्ति-केनेव । मुनीन्दु. नेव । यथा वैराग्यरङ्गतरङ्गितात्मना साधुसुधाकरेण अन्यतनूमनिकरः निजजीवसदृशो गण्यते । किंभूतेन । मुनीन्दुना अर्हतां सर्वतीर्थकृतां निदेश आज्ञा स एवोदित उदयं प्राप्तः सान्द्रस्नेहलोऽमृतवर्षी आश्विनपूर्णिमासंबन्धी चन्द्रः अखण्डमण्डलेन्दुस्तस्य चन्द्रातपश्चन्द्रिका तेनोद्वेलो वेलामुल्लङ्ग्य यात उद्वेल उत्कण्ठितो यः कृपारूप: पयोधिस्तत्र मीनो मत्स्य इवाचरितस्तेन । दयाहृदयेनेत्यर्थः ॥ इति प्रथमव्रते प्राकृतजी. वहिंसालोचनम् ॥ अमर्षणेनेव रुषा हसेन वैहासिकेनेव च भीरुणेव । भयेन लोभेन च गृचनेक मया यदप्यल्पमजल्प्यलीकम् ॥ १३८ ॥ यन्मया इह भवे परभवे वा यदल्पं स्तोकमप्यलीकं मिथ्यावाक्यमजल्पि भाषितम् । कया । रुषा रोषेण । केनेव । अमर्पणेनेव क्रोधनेनेव । यथा क्रोधातुरेण क्रोधेनालीकं जलप्यते 1 पुनः केन । हसेन हास्येन । केनेव । वैहासिकेनेव । यथा खभावातिभीरुकेण मृषा भाष्यते । च पुनः केन । लोभेन तृष्णया । केनेव । गृभुनेव । यथा लोलुभेन लोभाभिभूतेनासत्यं निगद्यते ॥ इति द्वितीयव्रते मृषावादालोचनम् ॥ .. ऋक्थं परेषां परिमोषिणेव मया कथंचिद्यददत्तमात्तम् । . प्रयोजने सत्यपि यत्तृणाद्यं क्वचिद्विनादेशमुपाददे च ॥ १३९ ॥ • यन्मया कथंचित्केनापि प्रकारेण अदत्तं केनापि स्वामिना अविश्राणितं परेषामन्येषामृक्थं दविणं धनमात्तं गृहीतम् । केनेव । परिमोषिणेव । यथा तस्करेणादत्तं परद्रव्यमान दीयते । च पुनः प्रयोजने कार्ये सत्यपि विद्यमानेऽपि कृत्ये आदेशं खाम्यखामिनो अनुज्ञां विना तृणाद्यं तृणशलाकाप्रमुख क्वचित्कुत्रापि स्थाने उपाददे जगृहे स्वयं खीकृतम् ॥ इति तृतीयव्रते अदत्तादानालोचनम् ॥ मरुन्मृगाक्ष्या मरुतेव दिव्यं नार्या नरेणेव च मानवीयम् । मया तिरश्चैव पुनस्तिरश्चा तैरश्चमाचर्यत मैथुनं यत् ॥ १४ ॥

Loading...

Page Navigation
1 ... 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980