Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 969
________________ काव्यमाला। शेषा इव त्रिभुवनाधिपतेः प्रमोदा ल्लोकाः सहैव जगृहुः सहकारिकास्ताः । प्रास्थापयन्पुनरकब्बरपातिसाहे रद्वैतविस्मयकरीरुपदा इवैताः ।। १९१ ॥ ते लोकाः श्रावका अपरेऽपि च नगरपामलोका यवनाश्च सहैव समकालमागत्य गुरुमाहात्म्यादेककालोत्पन्नास्ताः मञ्जरीः सहकारिकाश्च 'कइरी' इति प्रसिद्धाः जगृहुर्रहन्ति। कस्मात् । प्रमोदात् हर्षात् । का इव । शेषा इव । यथा त्रिभुवनाधिपतेः त्रैलोक्यनायकस्य परमेश्वरत्य शेषाः 'सेख' इति प्रसिद्धाः गृह्यन्ते । पुनस्ते तत्रगराधिपयवना . अकब्बरपातिसाहेरेताः सहकारिकाः' प्रास्थापयन् प्रेषयामासुः । किंभूताः । अद्वैतं न विद्यते द्वैतं द्वितयं यत्र तदद्वैतमसाधारणं मनस्यसामान्यं विस्मयमाश्चर्य चित्रं कुर्वन्तीति ता अद्वैतविस्मयकरीः । उत्प्रेक्ष्यते-उपदा ढौकनिका इव । अथ वोपमानम् । का इव । उपदा इव प्राभृतानीव। 'भेट' इति प्रसिद्धाः ।। इति माकन्दस्य फलनं तत्फल. ग्रहणं साहेः प्रेषणं च ॥ लाडकीति प्रिया यस्य मूर्ता श्रीरिव वेश्मनि । ' खर्गवी किमुत स्वर्गाद्भूमण्डलमुपागता ॥ १९२ ॥ स द्वीपबन्दिरश्रेष्ठी मेघनामा परीक्षकः। . आषभिवृषभस्येव सूरेः स्तूपमकारयत् ॥ १९३ ॥ मेघनामा परीक्षकः मेघपारिखनामा सूरहीरविजयव्रतीन्द्रस्य स्तूपमकारयत्कारयामास।क इव । आर्षभिरिव । यथा ऋषभस्यापत्यं नन्दनः आर्षभिर्भरतचक्री वृषभस्य ऋष. भदेवस्य अष्टापदपर्वते ऋषभदेवदेहसंस्कारस्थाने स्तूपं कारितवान्, तथा वृषभखामिप्रतिमां च तथा भ्रातृणां नवनवतिप्रतिमां च आत्मप्रतिमां च स्तूपशतं च मा कश्चिदाक्रमणं करिष्यतीति तत्रैकं भगवतः स्तूपं शेषाण्येकोनशतभ्रातृणाम्-इति हारिभद्यां मलयगिर्या चावश्यवृत्तौ । किंभूतः । द्वीपबन्दिरस्य । यत्र द्वीपान्तरेभ्यो यानपात्राः समायान्ति तेषु यान्ति च तद्वन्दिरमित्युच्यते । द्वीपनाम्रो नगरस्य श्रेष्ठी नगरमध्ये मुख्यपदभाक् । स कः । यस्य लाडकी नाम्नी प्रिया पत्नी वर्तते। उत्प्रेक्ष्यतेवेश्मनि मेघपरीक्षकसौधे मूर्ता मूर्तिमती लाडकीशरीरिणी श्रीलक्ष्मीरिव । उताथवा असौ लाडकीरूपा खर्गाद्देवलोकाद्भूमण्डले पृथिवीपीठे उपागता समायाता स्वर्गवी कामधेनुरिव ॥ युग्मम् ॥ आकृष्टा इव तिष्ठन्तः प्रभावैस्तत्प्रभोरिह । अर्हन्मूर्तेरिर्वतस्य सुराः सांनिध्यमादधुः ॥ १९४ ॥

Loading...

Page Navigation
1 ... 967 968 969 970 971 972 973 974 975 976 977 978 979 980