Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 897
________________ ८३६ काव्यमाला। विल आशयो हृदयं मध्यं यस्य । पुनः किं कुर्वन् । कुशेशयं कमलं तस्य पलाशं पत्रं तदिव निर्गत उपलेप: संसाराभिष्वङ्गः लिम्पनं च यस्मात्तस्य भावस्तत्ताम् । निर्लेपतामित्यर्थः । भजन्नाश्रयन् । च पुनः कदापि कस्मिन्नपि समये भारुण्डवद्भारुण्डपक्षीव प्र. मद्वरपदं प्रमादस्थानम् । प्रमत्ततामित्यर्थः । 'जनैव दधत् मा भूः क्वापि प्रमद्वरः' इति पाण्डवचरित्रे । पुनः किंभूतः । विमलभूधरं शत्रुजयशैलं भूषयनलंकुर्वन् । क इव । विशेषक इव । यथा तिलको ललाटं भूषयति ॥ इति हीरसूरिकृता ऋषभदेवस्तुतिः ॥ इत्यभिष्टुत्य सूरीश्वरः श्रीजिनं भालविन्यस्तहस्तद्वयाम्भोरुहः । इष्यशाखी फलाप्तेरिवामोदवान्प्राणमद्भूतलालम्बिमौलिस्थलः ॥१११॥ भूतलं पृथ्वीपीठमालम्बते इत्येवंशीलं मौलिस्थलं मस्तकं यस्य तादृशः सन् सूरी.. श्वरो हीरविजयसूरिवासवः श्रीजिनमृषभदेवं प्राणमत्प्रणनाम नमस्करोति स्म । किं कृत्वा । भाले ललाटे विन्यस्तं स्थापितं हस्तयोर्द्वयं करयोर्युगलमेवाम्भोरुहं कमलं येन . तादृशः सन् इति पूर्वोककाव्यैरभिष्ट्रय स्तुतिं कृत्वा । किंभूतः सूरिः । फलाप्तेः श्रीशमुंजययात्राऋषभदेवदर्शनादिरूपफलस्य प्राप्तेः सकाशादामोदवान् परमानन्दकन्दकन्दलितहृदयः । क इव । इष्यशाखीव । यथा वसन्ततर्भूतले मेदिनीमण्डले मिलन्यो मस्तकस्य शिखरस्य शाखा यस्य तादृशः फलानामुपलक्षणात्पल्लवपत्रकुसुमानां च लाभादामोदवान्परिमलकलितः प्रकर्षेण नमति ॥ निववृते प्रमदेन्दिरयान्वितः स जिनगर्भगृहान्तरतस्ततः । चतुरिकोदरतोऽभिनवोढया वर इवामृतदीधितिवक्त्रया ॥ ११२ ॥ ततो जिनस्तुतिनुतिकरणानन्तरं स सूरिर्जिनस्य ऋषभदेवस्य यो, गर्भगृहो गर्भागारस्तस्यान्तरतो मध्यान्निववृते निवृत्तः पश्चाद्ववले । 'निववृते स महार्णवरोधसः' इति रघौ । बहिराजगामेत्यर्थः । किंलक्षणः । प्रमदेन्दिरया प्रमोदलक्ष्म्या अन्वितो युक्तः । क इव । वर इव । यथा वरयिता परिणेता अभिनवोढया तात्कालिकंपरि. णीतया अमृतदीधितिवक्त्रया चन्द्रमुख्या आह्लादकृद्वदनया सहितः । चतुरिकोदरतः 'चउरी' इति प्रसिद्धाया मध्यतः गर्भानिवर्तते बहिरागच्छति ॥ शांभवाद्वहिरुपेत्य सद्मनः पर्षदो वसुमतीपतेरिव ।। द्वारि धीसख इव प्रवेशने धर्मकृत्यविधये स आसितः ॥ ११३ ॥ स हीरसूरिः द्वारि प्रासादद्वार देशे आसित उपविष्टः । कस्मै । धाणि धर्मसंवन्धीनि दीक्षोपस्थापनाव्रतोच्चारादीनि कृत्यानि कार्याणि तेषां विधिः शास्त्रोक्तप्रकारेण करणं तदर्थम् । क इव । यथा सचिवः प्रधानः धाणां न्यायव्यवहारोपलक्षितकार्याणां राजप्रजासंबन्धिना विधये प्रवेशने आसितो भवति । किं कृत्वा । शांभवात्तीर्थकरसंबन्धिनः सद्मनः मन्दिराबहिर्वाह्यप्रदेशे उपेत्यागत्य । कस्या इव । पर्षद इव । यथा धीसखो वसुमतीपतेः पर्षदः सभाया बहिरेत्य सिंहद्वारे राजप्रजाकार्यार्थमुपविशति ॥

Loading...

Page Navigation
1 ... 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980