Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८९२
काव्यमाला ।
1
मरुन्मृगाक्ष्या देवाङ्गनया समं दिव्यं देवतासंवन्धि यन्मया मैथुनमाचर्यत भोग: कृतः । केनेव । मरुतेव । यथा चतुर्निकायादिदेवेन देव्या सार्धं निधुवनं विधीयते । पुनर्नार्या मनुष्ययोषिता साकं मानवीयं मानवसंबन्धि मैथुनं कामकेलिराचर्यत आचीर्णा । केनेव । नरेणेव । यथा नरेण नार्या समं कन्दपक्रीडा क्रियते । पुनस्तिरचा तिर्यग्जातीयया स्त्रिया सत्रा तैरश्यं तिर्यक्संबन्धि मैथुनं ग्राम्यधर्म आचर्यत विहितम् । केनेव । तिरश्चैव । यथा तिर्यग्जातीयेन पुरुषेण तिरक्षा समं मैथुनं पशुक्रिया क्रियते । सर्वत्र इह भवेऽन्ये भवेऽपीति योज्यम् ॥ इति चतुर्थव्रते मैथुनालोचनम् ॥ सखीमिव खः शिवपद्मधाम्नोर्निरीहतां मुग्धतया विहाय । दूतीमिवादृत्य च दुर्गतीनामृद्धिं मयादायि परिग्रहो यत् ॥ १४१ ॥ यन्मया परिग्रहो धनधान्यद्विपदचतुष्पदादिक आदायि स्वीकृतः । किं कृत्वा । खः शिवपद्मधाम्नोः खर्गापवर्गलक्ष्म्योः सखीं वयसीमिव निरीहतां निःस्पृहभावं विहाय किं मुच्य । कया। मुग्धतया मौग्ध्येनाज्ञानेन । च पुनर्दुर्गतींना दुष्टानां महाधिव्याधिविधात्रीणां नारकतिर्यक्कुदेवकुमनुजलक्षणानां गवीनां दूबीमा कारणसंदेशहारिकामिव ऋद्धि प्राप्ताप्राप्तेषु वस्तुषु सर्वेष्वैहलौकिक पदार्थेष्वासक्ति मादृत्याङ्गीकृत्य । तस्यामादरपरिभूयेत्यर्थः ॥ इति पश्चमत्रते परिग्रहालोचनम् ॥
मरुद्रुमान्मेरुरिवेन्द्रियाणि प्राणीव बाणानिव पञ्चबाणः ।
मुखान्यथा पञ्चमुखश्च सम्यङ्गाधारयं पञ्चमहाव्रतान्यत् ॥ १४२ ॥ यदहं पञ्चमहाव्रतान् मेरूपमान्नियमविशेषान् । व्रतशब्दः पुंनपुंसके । सम्यक् त्रि करणशुद्ध्या नाधारयं न धृतवान् । क इव । मेरुरिव । यथा काञ्चनाचलः कल्पपारिजातमन्दारहरिचन्दनसंतानाभिधानान्पच संख्याकान्मरुङ्कुमान् कल्पवृक्षान् धारयति । पुनः क इव । प्राणीव । यथा जन्तुः शरीररसनानासिकानयनश्रवणलक्षणानि पञ्चेन्द्रियाणि धत्ते । पुनः क इव । पश्चबाण इव । यथां मदनः संमोहन - उन्माद - तापन - शोषणमारण-इति नाम्नः । तथा क्वचित् 'दिद्वीहिं दिद्विपसरो दिद्विपसारणभाव अणुराओ । अणुराण पिनेो वाणा मयणस्स पश्च ॥ एतेऽपि पश्च बाणाः प्रोच्यन्ते । पश्चप्रमाणान्बाणान् सायकान्दधाति । पुनः क इव । पश्ञ्चमुख इव । अत्र यथा इवार्थे । यथा नीलकण्ठः कण्ठीरवो वा पञ्चमुखान् धरति । मुखशब्दोऽपि पुंनपुंसके । एवं यथा मेरुमनुष्यमदनपारीन्द्रनिनाकिनः कल्पद्रुमेन्द्रियमार्गणमुखानि धारयन्ति तथा अहं पश्च महाव्रतान्नाधारयमित्यर्थः । इति पञ्चत्रताधारणलोचनम् ॥
निशाचरेणेव निशाशनं यन्मया कथंचित्प्रविधीयते स्म ।
कौसीद्यमाद्यन्मनसेव किंचिच्छैथिल्यमालम्ब्यत यत्क्रियासु ॥ १४३ ॥ मया कथंचित्केनचिन्मिथ्याज्ञानमूढतादिप्रकारेण निशाचरेणेव राक्षसेनेव निशाशनं रात्रिभोजनं प्रविधीयते स्म । पुनर्यत्क्रियासु चारित्रानुष्ठानकरणेषु शैथिल्यं शिथि
Loading... Page Navigation 1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980