Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 949
________________ ८ काव्यमाला। तत्त्वेषु कृपां दधानः । अजिनाज्ञापूर्वकदयामयो धर्म इत्यर्थः । क इव । सुधांशुरिव । यथा चन्द्रो मध्ये निजमण्डलान्तराले सुधाममृतं धत्ते। यो धर्मः अतिभीमे अतिशयेन भीतिकारिणि भववारिधौ संसारसमुद्रे मजज्जनस्य बुडतो, लोकस्य करावलम्बो हस्तावलम्बनमिवास्ति । हस्ते गृहीत्वा कर्षतीत्यर्थः । यथा कश्चिदगाधजलनिधिमजन्तं कंचिजन्तुं हस्ताभ्यां गाढमादाय बहिः कर्षति तद्वदास्ते ॥ इत्यर्हत्सिद्धसाधुधर्माणां चतुर्णा शरणम् ॥ ज्ञाने ममाष्टौ समयादिकातीचाराः प्रमादा इव शुद्धधर्मे । . . शङ्कादिका अष्ट च दर्शनेऽतीचारा मदा देहभृतीव जाताः॥ १२८॥ कर्माणि जन्ताविव ये ममातीचाराः पुनर्मातृगताश्चरित्रे । मिथ्यासतां ते बहुगवाचो व्याहारवन्मे निखिला इदानीम् ॥ १२९॥ ये ममाष्टौ अष्टसंख्याकाः ज्ञाने ज्ञानाचारे अतीचाराः संजाताः । किंभूताः । समयः काल: आदौ येषां कालविनयबहुमानोपधानहीननिह्नवव्यञ्जनार्थतदुभयहीना एतेऽष्ट ज्ञाना. वीचाराः।के इव। प्रमादा इव । यथा शुद्धे जिनभाषिते धर्मे मद्य-विषय-क्रोध-मान-माया-लोभ-निद्रा-विकथानामानोऽष्टप्रमादाः स्युर्धर्मविषयेऽमी प्रमादा भविनां भवेयुः। च पुनर्ये मम दर्शने सम्यक्त्वे दर्शनाचारे शङ्का-आकाङ्क्षा-विचिकित्सा-मूढदृष्टता-अनुपम बृंहणा-अस्थिरीकरण-असाधर्मिकवात्सल्य-अप्रभावना इत्यभिधाना अष्टौ अष्टप्रमाणा अतीचाराः संपन्नाः । के इव । यथा जने जाति-कुल-बल-ज्ञान-ऐश्वर्य-रूप-तपो-लब्धि. रूपा अष्टौ मदा भवन्ति । पुनर्ये चरित्रे चारित्राचारे अनिर्यासमिति-अभाषासमितिअनेषणासमिति-अनादाननिक्षेपासमिति-अपारष्टापनिकासमिति-अमानागुप्ति-अवचनगुप्ति-अकायगुप्तिः इति संज्ञा मातृगता अष्ट प्रवचनमातृसंबन्धिनोऽतीचारा जाताः । कानीव । कर्माणीव । यथा जन्तौ प्राणिनिविषये ज्ञानावरणीय-दर्शनावरणीय-मोहनीय-वेदनीय-अन्तराय-नाम-गोत्र-आयुः इत्यष्टौ कर्माणि जायन्ते । सांसारिके जीवे इति शेषः । ते निखिलाः सर्वेऽपि चतुर्विंशतिरतीचाराः इदानीमस्मिन्नायुरन्तसमये मम ते ममातीचारा मिथ्या मृषा आसतां भवन्तु । किंवत् । व्याहारवत् । यथा बहुगर्थवाचो वाचालस्य । 'स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्घवाक्' इति हैम्याम् । व्याहारा वासि मिथ्या जायन्ते । 'व्याहारो भाषितं वचः' इत्यपि हैम्याम् ॥ युग्मम् ॥ तपःसु ये द्वादशभेदभिन्नेष्वहर्मणीनामिव मण्डलेषु । वीर्येऽभवन्येऽत्र भवे ममातीचारप्रचाराश्च मृषासतां मे ॥ १३० ॥ द्वादशभिर्भेदैः प्रकारैः भिन्नेषु पृथक्पृथग्भूतेषु । अनशनम् , ऊनोदरिका, वृत्तिसंक्षेपः, सत्यागः, कायक्लेशः, सलीनता, इति षड्डिधं बाह्यतपः । तथा प्रायश्चित्तम् , विनयः, धैयावृत्त्यम् , खाध्यायः, ध्यानम् , कायोत्सर्गश्च इति षड्डिधं बाह्यतपः । संभूय द्वादशप्रकारेषु तपःसु तपआचारेषु समये अतीचाराणां प्रचारा विस्तारा लगनानि वा अभवन्

Loading...

Page Navigation
1 ... 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980