Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः ]
हीरसौभाग्यम् ।
सीहगिरेरिव वज्रस्वामी तस्यैष पदपयोधिविधुः । श्रीविजयदेवसूरिक्षोणीन्द्रः पर्वतायुः स्यात् ॥ २१० ॥
९११
श्रीसीद्दगिरिमूरेरिव श्रीमान् वज्रस्वामी तस्य विजयसेनसूरेः पदं पट्टः स एव पयोवः समुद्रः तदुल्लास विधाने विधुः शारदान शर्वरीवरयिता एवं सकलकुवलयप्रतिबोधविधायकः श्रीमान् सर्वत्र शोभाविभ्राजिष्णुः विजय देवसूरिः पर्वतायुः पर्वतानां महागिरीणामिवासंख्यवर्षायुस्तत्स्याद्भवतात् ॥
अथाशीर्वचनम्
यावन्मार्तण्डमुख्यग्रहगणकलितो भूभृतां चक्रवर्ती
प्रीतिं पीयूषपूरैः सृजति जनदृशां शार्वरीसार्वभौमः । यावत्पाथोजपाणिर्हरिदलसदृशामास्यपद्मप्रकाशी
यावद्भूपीठभारं भजति निजफणामण्डलैः कुण्डलीन्द्रः ॥ १११ ॥
तावदिति काव्यसंबन्धोऽग्रे वक्ष्यते । यावन्तं समयं भूभृतां सर्वपर्वतानां सर्वोभतत्वात् लक्षयोजनमितत्वात्तीर्थकृतां जन्माभिषेकस्थानत्वाच्च परशासनेऽपि 'दिवमंडादमराद्विरागताम्' इत्युक्तत्वेन स्वर्गाधारत्वाच्च चक्रवर्ती सुमेरुः । अथ वा 'सातकुम्भावनभृत्' इति पाठः । सुवर्णाचलो वर्तते । किंभूतः । मार्तण्डो भास्करो मुख्योऽप्रणीः प्रधानो येषु तादृशाः प्रहाः सोममङ्गलाया अष्टाशीति संख्या उपलक्षणान्नक्षत्रतारकास्तेषां गणाः समूहास्तैः कलितो युक्तः । तथा यावन्तमनेहसं शर्वरीसार्वभीमश्चन्द्रमाः । किंभूतः । जनदृशां लोकलोचनानां पीयूषपूरैः सुधारसप्रसरैः प्रीतिं सृजति । प्रीणातीत्यर्थः । तथा यावत्पाथोजपाणिः सहस्रकिरणां विद्यते । किंभूतः । हरितो दिश एवालसदृशो मृगाक्ष्यस्तासामास्यानि मुखान्येव पद्मानि विकाशयतीत्येवंशीलः । तथा यावत्कुण्डलीन्दो नागराजः शेषनाग : भूपीठभारं मेदिनीमण्डलभारं भजति । वहतीत्यर्थः । केः । निजैरा • त्मीयैः फणामण्डलैः सहस्रफणैः ॥
यावज्जम्भारिधूमध्वजजलजसुहृत्सूनुरक्षःस्रवन्ती
कान्तावासाहिकान्त त्रिनयनसवयः पार्वतीशा दिगीशाः ।
यावत्पाथोधिपृथ्वीधरगुरुगुरुतां बिभ्रती रत्नगर्भा
जन्तून्यावत्पुनाति त्रिभुवनभवनान्भारती विश्वभर्तुः ॥ २१२ ॥
यावन्तं कालं जम्भारिः पुरंदरः, धूमध्वजो वहि:, जलजानां पद्मानां सुहृन्मित्रं भाखान् तस्य सूनुर्नन्दनो यमः, रक्षो नैर्ऋतिः स्रवन्तीकान्तो नदीपतिः समुद्रः तत्र वासो वेश्म यस्य सोऽर्णवमन्दिरो वरुणः, अहिकान्तो वायुः, त्रिनयनस्य सवया मित्रमीशसखा धनदः, पार्वत्या गौर्या ईशो वल्लभः शंभुः । ' दण्डधरोऽर्कसूनुः', तथा 'वरुणस्त्वर्णवमन्दिरः
Loading... Page Navigation 1 ... 974 975 976 977 978 979 980