Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
पिहितसरः (८९)
285
यथास्विनाननमायातं प्रातर्निजसद्म वीक्ष्य नन्दसुतम् । लघुलयललितं व्यजनं करकिसलयतोऽग्रहीतं राधा ॥ १८८७ ॥
लघुलयं लामजकम् । सर्वरात्रं नायिकान्तरसंभोगेन श्रान्तोऽसीति वीजयामीति लामजकतालवृन्तग्रहणाकूतम् ॥
यथावा
परतरुणीहारिद्रच्छुरितकपोलं निरीक्ष्य यदुबालम् । पिहिताकारा भैष्मी पाणौ मणिदर्पणं ददौ तस्य ॥ १८॥ . अत्र हरिकपोले हरिद्राचूर्णलेपनेनानुमितं रजन्यां तव सपत्नीसदने स्वैरविहारं जानाम्यहमित्याकूतगर्भ तत्करकमले रुक्मिण्या दर्पणदानरूपं चेष्टितं निबद्धम् । पिहिताकारेत्यनेन सूचनीयालंकारनामसूचनरूपमुद्रालंकारोपस्कृतत्वं पूर्वस्माद्वशेषः ॥
इदं कुवलयानन्दानुरोधेन । सर्वर्वकारादयस्तु-'संल. क्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्' इति स्थूलमतिभिरसंलक्षणीयः कुशाग्रमतिभिस्संलक्ष्यते यस्सूक्ष्मार्थः तस्य विदग्धं प्रकाशनमिति सूक्ष्मार्थत्वेन पराशयवृत्तान्तयोः क्रोडीकारेण लक्षयित्वा
संकेतकालमनसं विटं ज्ञात्वा विदग्धया । आसीनेत्रार्पिताकृतं लीलावगं निमीलितम् ॥ वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दष्ट्वा भिन्नं कुङ्कुमं काऽपि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्यास्स्मित्वा पाणी खड्गले
खां लिलेख ॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358