Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
विवृतोक्तिसरः (९२)
297
तप्तहृदयां विरहतापशिथिलितमानसां एनां मां विविक्ता निश्श. लाकस्थानावस्थितां विमृशन इयमिदानी रहस्यवस्थितेति सम्य. ग्विजानन् अव प्रीणय । अवतेः प्रीणनार्थकाल्लोण्मध्यमैकवचनम् । अत्र स्फुटप्रतीयमानेन भगवदभ्यर्थनरूपेण त्रपया गुप्तस्य विवक्षितश्रीकृष्णसंभोगाभ्यर्थनरूपस्यार्थान्तरस्य इङ्गितमबोधीत्यनेन स्फुटीकरणम् । इदं शब्दशक्तिकोडीकृतगुप्ताविकरणम् ॥ ____ अर्थशक्तिमूलगुप्ताविष्करणं यथा -
त्वं किल कृपानिधिमी प्रतीक्षमाणां दृशाऽपि नागृह्णाः । इति साकृतं ब्रुवती परिरब्धा शौरिणा ब्रजेन्दुमुखी ।। १९०३ ॥
त्वं किल कृपानिधिरिति विपरीतलक्षणा । कुत इत्यत्राहप्रतीति । प्रतीक्षमाणां चिररात्राय हृदयविपरिवर्तमानत्वदुपभो. गाशासनेन त्वां प्रतिपालयमानामिति भावः। दृशाऽपि नागृहाः । उपभोगप्रत्याशा तावदास्तां दूरे कटाक्षलेशप्रसारण वा न मामाद्रियथा इति भावः। कृपानिधिरेव न चेदेवं कुतस्तनुया इत्युपालम्भः । अत्र एवंविधा वचनभङ्गया चिरोत्काण्ठतत्वदुपभोगौपयिकसमयलाभेन त्वामहं प्रत्यैक्षिषि । स च न प्राप्त इत्यर्थशक्तिलभ्य वस्तु सातमित्यनेन विटतम् । सर्वमिदं कविनिबद्धवक्तृगुप्ताविष्करणोदाहरणम् ॥
कविगुप्ताविकरणं यथाप्रकृते प्रतीपदार्शनि निजैर्गुणैर्मी विमोहयसि नित्यम् । किंचिद्दयस्व वामे त्वयाऽवियुक्तो लभेय नित्यसुखम् ॥ १९०४ ॥
ALANKARA-III.

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358