Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 327
________________ 318 अलंकारमणिहारे __ मितसितहसितविकस्वरकपोलफलकं कुरङ्गमदतिलकम् । वृषशिखरिनित्यभोग्यं वृणीमहे मनसि किमपि सौभाग्यम ॥ १९४८ ॥ अनयोः पद्ययो व्यस्वभाववर्णनम् ॥ इत्यलङ्कारमणिहारे स्वभावोक्तिसरस्सप्तनवतितमः. अथ भाविकसरः (९८) वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी। प्रत्यक्षे इव दृश्यते यत्र तद्राविकं मतम् ॥ यत्रात्यद्भतचरितोपवर्णनादतीतानागतयोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः। न चातीतानागतयोः प्रत्यक्षवदवभासो विरुद्धः, अत्यद्भुतवस्तुवर्णनेन भाविकानां हृदि भावनोदयात् । तथाच भावनायाः प्रकर्षण घटत एव प्रत्यक्षायमाणत्वं भूतभाविनोरप्यर्थयोः। यथा वृक्षेत्रक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।। असीनस्सविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् । चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥ इत्यादौ । न चेय स्वभावोक्तिः, तत्र हि वस्तुस्वभावस्य यथावद्वर्णनेन प्रत्यक्षायमाणता। इह तु अद्भुतत्वेन । नापि रसवदाद्यलङ्कारः, यत्तत्र विभावानुभावाद्यनुसंधानेनैव रसादेर्भा

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358