Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
338
अलङ्कारमणिहारे
नवनीतम्। हन्त हरेः किंन्विदमिति मनःकषायं ममातिकटु हेयम् ॥ १९८६॥ ___ इदं किंन्विति किंवस्त्विति हरेरिति योजना। मनसः कषायं रागादिवासनां प्रसिद्धनिम्बादिक्काथनिष्पादितं कषायं च 'निर्यासेऽपि कषायोऽस्त्री' इत्यमरः । अत्र वक्तुमनःकषायस्य पयस्त्वाद्यभावः प्रसिद्ध एव कथ्यमानस्तस्या स्वादुतमक्षीरादिहरण एव तवादरः न त्वस्मदीयजुगुप्सिततरमनःकषायहरणे इति परिहासमभिप्रेति । स च अतिकटु हेयामिति विशेषणाभ्यां कषायमिति विशेष्येण च प्रादुष्कृतः ॥
इत्यलङ्कारमणिहारे प्रतिषेधसरो द्वयधिकशततमः.
अथ विधिसरः (१०३)
सा विध्यलंकृतिर्यत्र सिद्धमेव विधीयते ।
यन्नितिविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भिकारेण सु. न्दरतरं स विधिनामाऽलंकारः । यथाऽऽहुः
ज्ञातार्थस्य विधानं यदुपयोगपरिच्युतम् । अभिप्रायान्तरं गर्भीकुर्वद्विच्छित्तिशालि चेत् ॥ विध्यलङ्कारमाहुस्तं साहित्यपरिशोलिनः । इति ॥
यथावा
तत्वं ब्रवीमि भगवस्त्वं त्वं जीवस्तु जीव एव हरे। जगदीश्वरतहासौ जगदाते केन मतिमताऽनन्यौ ॥ १९८७ ॥

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358