Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 329
________________ ~~~ 320 अलङ्कारमाणहारे ~~~~~~~ यथावा सम्मर्दकुपितबलपतिवेत्रहतित्रुटितकोटिकोटीरान् । अद्यापि पद्मजाद्यांस्त्वद्वारीक्षामहे वृषाद्रिमणे ॥ १९५२ ॥ यथावा__ भवता वालिदशास्यौ भग्नौ रघुवीर दृष्टवन्तं पूर्वम् । अहहा इत्यधुनाऽपि च सहस्रनयनं सहास्रनयनं वीक्षे ॥ १९५३ ॥ अहह आ इति छेदः । एतौ द्वावपि निपातौ यथाक्रम वालिस्मरणजनितखेदे रावणस्मरणाद्भते च वर्तेते। आ इतीत्यत्र 'निपात एकाजनाङ्' इति प्रकृतिभावः । अङिदेवायं निपातः, स्मरणार्थकत्वात् । अनुशिष्यते हि वाक्यस्मरणयोरङित्' इति । अहह आ इति अयं दुःखाश्चर्यद्योतको वागारम्भसंभवोऽनुभावः । अहह आ इति अद्यापि अस्त्रेण शोकानन्दजन्येनास्त्रेण सह वर्तन्ते इति सहास्त्राणि 'वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वान्न सहशब्दस्य सभावः । ताहशानि नयनानि यस्य तं तथाविधं अद्यापि वालिवधजनितशोकाश्रुनयनं रावणवधजनितप्रमोदाश्रुनयनं च वीक्षे इति भावः । पक्षे सहस्रनयनशब्दं अहहाः अविद्यमानः हः हकारो येन सः अहः अहः हाः हा इति वर्णः यस्य तथोक्तः हकारच्यावनेन तत्रैव हाकारेण घटित इत्यर्थः । इति हेतोः सहास्रनयनं वीक्षे उक्तरीत्या सहस्रनयनशब्दस्य तथाभूतत्वादिति भावः । इदमपि भूतविषयसाक्षात्कारवर्णनमेव । चमत्कारान्तरं तु पूर्वेभ्यो विशेषः॥

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358