Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
वक्रोक्तिसर: (९६)
अत्र गोपाल इत्यादि गौरीपरिहासवाक्यं कृष्णाभिप्रायगर्भ पशूनां पतिः क्व वेत्यादिना महेश्वरवृत्तान्ताविष्करणाभिप्रायपरतया श्रिया योजितम् ॥
315
काका यथा
वेगादागाः किं वा चिकीर्षसे कृष्ण ननु न जानेऽहम् । न विजानासि नतरित्याश्लिष्यन् हरिजयति गोपीम् ॥। १९४१ ॥
अत्र कस्य कार्यस्य चिकीर्षया तव वेगादागमनमिति न वेद्मति ऋजुमतितयाऽनुयुञ्जानां व्रजललानां प्रति न विजानानासीति काक्का अर्थान्तरकल्पनम् ॥
काकुविकृतश्लेषाभ्यां मिळिताभ्यामनीयं भवति । यथा
प्रचुराजिपटीयांसं दाशरथे दाशरथे विप्रवर्णमुख्यं माम् । विद्धि प्रसन्नशस्त्रं बहुमन्ये भृगुज साधु विप्रं
त्वाम् ॥। १९४२ ॥
अयं भार्गवराघवयोस्संवादरूपश्श्लोकः । तत्र प्रचुरसमरपटुतरं ब्रह्मवर्णप्रमुखं निर्मलास्त्रं मां विद्धीति स्वस्य दुर्जयत्वमहीयस्त्वाद्यभिप्रायेण भार्गवोक्तस्य चरणत्रयस्य' हे भृगुज ! साधु विप्रं त्वां बहुमन्ये इति काका अहो तव ब्राह्मण्यमित्या - कृतगर्भयाऽन्यधा योजनं भगवता राघवेण कृतम् । अत्रैव हे भूगुज ! त्वां साधु सम्यक् बहु बहुलं च विप्रं विगतप्रवर्णे मन्ये इति प्रवर्णोद्धारेणार्थान्तरकल्पनं च । तथा सति चुराजिपटीयांसं विवर्णमुख्यं सन्नशस्त्रमिति च निष्पद्यते । चुरा चौर्य

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358