Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
उदात्तसर : (९९)
323
मा 'भैषीः पुत्र भद्रं ते शङ्खचक्रौ ददामि ते । ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः ॥ इत्युक्ता प्रददौ तस्मै ताभ्यां सह जगाम सः । तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम् ॥ आजग्मतुः क्षितिभृता साकं देवस्य संनिधिम् । राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः ॥ वरं वरय भद्रेति देवो राजानमब्रवीत् । राजा - ममायुधप्रदानस्य ख्यात्यै देवोत्तम प्रभो ॥ अबिम्बे शिलाबिम्बे चक्रशक्ते न धारय । इति संप्रार्थितो देवो न दधार पुनश्च तौ ॥ अदृश्यौ तिष्ठतश्चोभौ पार्श्वतश्शार्ङ्गधन्वनः ॥ इत्यादिवेंकटाद्विमाहात्म्यान्तर्गतब्राह्मपुराणकथाभगवद्भाष्यकारका
रितश्रीनिवासशङ्खचक्रपरिग्रहकथा चेहानुसंधेया । अत्र श्यस्य भगवद्रामानुजाचार्यकारितश्रीनिवासशङ्खचक्रधारणरूपमहापुरुषचरित्रस्य वर्णनीयं वैंकटाद्रिं प्रत्युपलक्षकत्वम् ॥
यथावा -
स शिलोच्चयो विजयतां यत्रामृतदोऽप्यशेषविबुधानाम् । कंचन विबुधं तातेत्यामन्त्रयायाचतामृतं जगज्जनकः ॥ १९५८ ॥
ला
अनेकेषां विबुधानां देवानां विदुषां वा अमृतदः सुधाप्रदः निश्श्रेयस प्रदो वा जगज्जनकः श्रीनिवासः कंचन विबुधं श्रीशैलपूर्णनामानं महात्मानं विपश्चितं तातेति आमन्त्रय संबोध्य अमृतं सुधां निश्श्रेयसं वा । वारीति तु तत्त्वम् । अयाचत दवीयस्तरात्तुम्बुरुतीर्थादनुदिनं स्वाराधनकृते तीर्थानयन कैंकर्य -

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358