Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 350
________________ हेतुसरः (१०४) 341 अथ हेतुसरः (१०४) साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः । कार्यस्य कारणेन सह वर्णन हेत्वलंकार इत्यर्थः । अयं जयदेवेन चन्द्रालोके तृतीयमयूखे कार्यनान्ना काव्यलक्षणतया व्यवहृतः । यथा - कार्य फलोपलम्भश्चेवयापारावस्तुतोऽथवा । असावुदति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ इति । दीक्षितैस्तु अयमपि चमत्कारितयाऽलंकारेषु परिगणितः ॥ यथा परिपालनाय जगतामवतारस्तव न चात्र संदेहः । मत्पालनाय चिरयसि कस्मादिति मे रमेश संदेहः ॥ १९९० ॥ अत्र जगत्परिपालनावतारयोः कार्यकारणयोस्सहवर्णनम् ॥ यथावा मरकतकं फणिशिखरिणि किमपि तदमराद्यतां प्रपद्य तराम् । भुवनमधःकृतपत विरचयितुं कतकतामहोधते ॥ १९९१ ॥ फणिशिखरिणि किमपि तत् लोकोत्तरमिति यावत् । मरकतकं गारुत्मतं अमराद्यतां देवोत्तमत्वं श्रीनिवासत्वमित्यर्थः । भुवनं विष्टपं सलिलं च अधकृतः अधोभागं नीतः तिरस्क

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358