Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
296
अलकारमणिहारे
दयितं सर्वलोकेश्वरं वा 'त्रिवध्यक्षेऽपि वल्लभः' इत्यमरः । घनं रत्नं कौस्तुभो यस्य स तथोक्तः । स चासौ श्रीवत्साङ्कः भगवान् त अनालोक्यापि कस्माद्धेतोः मां श्रियमेव पश्यसि । भगवन्तमपि पश्येति भावः । गूढार्थस्तु -हे कमन कामुक! वल्लभं मद्भर्तारं आलोक्यापि घना च सा रत्नश्रीश्च सा वत्से वक्षसि यस्यास्तां घनरत्नश्रीयुक्तं वत्सं यस्या इति वा। मा कस्मात्पश्यसि । मद्भर्तुस्समक्ष मा द्राक्षीरिति भावः । इदमपि परवञ्चनार्थगुप्ताविष्करणमेव ॥
त्रपागुप्ताविकरणं यथा
स्मरदीनामेनां त्वं सुभगोविन्दावतप्तहृदयां माम् । नाथ विमशन्विविक्तामिति गोप्या शौरिरिङ्गिन्तमबोधि ॥ १९०२ ॥
स्मर दीनां एनां त्वं सुभगः विन्द अवतप्तहृदयां मां इति प्राथमिकार्थकक्ष्यायां पदच्छेदः । शोभनः भगः ऐश्वर्यादिषाड्गुण्यं यस्य सः सुभगः तस्य संबुद्धिः हे नाथ सर्वेश्वर! त्वं एनां मामिति भावः । दीनां स्मर । एषा कृपणेति जानीहीति भावः । अत एव अवतप्तहृदयां तापत्रयक्षुभितमानसां मां विन्द प्राप्तहि । रक्ष्यत्वेन स्वीकुरुष्वेति यावत् । स्वपरिग्रहे हेत्वन्तरं चाभिप्रयन्ती प्राह -विविक्तां पवित्रशीलां शरण्यान्तरचिन्तनासंवलिततया स्वच्छामिति भावः । 'विविक्तौ पूतविजनौ' इत्यमरः। विमृशन् सम्यग्विचारयन् विन्देत्यन्वयः गूढाभिप्रायपक्षे तु-स्मरदीनां एनां त्वं सुभ गोविन्द अव तप्तहृदयां मां इति छेदः । हे नाथ प्रिय ! सर्वानपि पुरुषार्थान् त्वमेव या- . चनीय इति भावः । हे गोविन्द ! त्वं स्मरेण दीनां अत एव

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358