Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 304
________________ विवृतोक्तिसरः (१२) 295 ममैव रङ्गराजविलासे यथावा माधवमभिवीक्ष्यामुं भुजगशयमद्य हृदि कुरुप्वेति। नैजसखी प्रत्युक्तं कयाचन निशम्य जोषमास युवा ।। १९०० ॥ इदं भगवतो रङ्गराजस्योत्सवसमये महाजनसम्म स्वपयोधरदत्तहस्तमसमयज्ञं कश्चित्कामिनं प्रति वक्तव्यस्यार्थस्य स्वसखी प्रति कस्याश्चिद्विदग्धायाः कामिन्या वचनम् । भुजङ्गशयं शेषशायिनं अमुं माधवं श्रीवल्लभं श्रीरङ्गराजं अभिवीक्ष्य अभितो दृष्ट्वा प्रत्यवयवं विविच्य विलोक्येत्यभिप्रायः । हृदि कुरुष्व ध्याये । गूढार्थस्तु --मा धवं इति, भुजङ्ग शयं इति च पदद्वयम् । हे भुजङ्ग हे पल्लविक! अमुं विप्रकृष्टस्थित ' 'अदसस्तु विप्रकृष्टे' इत्यनुशासनात् । धवं मद्भर्तारं वीक्ष्य हृदि मम वक्षसि शयं पाणिं मा कुरुष्व । मद्भर्ताऽयमदूरावस्थित एव मा मत्पयोधरौ स्प्राक्षीरिति भावः । इदमपि परातिसन्धानार्थगुप्ताविष्करणम् ॥ ममैव नृसिंहविलासे यथावाघनरत्नश्रीवत्साझमनालोक्यापि वल्लभं कस्मातू । मां पश्यसीति गदिते सखी प्रति कयाऽपि निववृते विटराट् ॥ १९०१ ॥ इयं भगवतो नृसिंहस्योत्सवसंमर्दै प्रत्यासन्नमपि भर्तारं रागान्धतयाऽनालोक्यात्मानं पश्यन्तं कश्चित्कामुकं प्रति निग. दितव्यस्यार्थस्य स्वसखी प्रति कस्याश्चित्प्रौढाया उक्तिः । वल्लभं

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358