Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
312
अलङ्कारमणिहारे
अयमपि शैववैष्णवयोरेवोक्तिप्रत्युक्तिरूपः श्लोकः । काशी. पुरस्य वहनं उद्धरण रक्षणमिति यावत् । तस्मिन् पटुः पाणासुरवरदायी काशीपुरवहनपटुः अयं शिव एव परमः उत्कृष्ट इति शैवेनोक्तम् । वेदं पठ अत्र परमः क इति तदा वेत्सि 'तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैव. तम् । अग्निरवमो देवतानां विष्णुः परमः' इति श्रुतिपठने परमः को वा स्यादिति त्वमेव जानासीति प्रतिवदता वैष्णवेन अत्र त्वदुक्तयोः बाणासुरवरदायी काशीपुरवहनपटुरिति पदयोः वे वकारस्थाने दं दकारं पठेति वकारोद्वापनेन तत्रैव दकारावापनेन च बाणासुरदरदायी काशीपुरदहनपटुरयं श्रीवासुदेव एव परम इत्यर्थस्य परिकल्पनादिदमपि विकृतश्लेषवक्रोक्तयुदाहरणमेव ॥
यथावा
मीनेक्षणे त्यज रुषं कमनं पुरतस्स्थितं निरीक्षस्व । मन्दं जल्प शठात्रेत्यवनी श्रीशं तिरश्चकार रुषा ॥ १९३७॥ ___ इयं मानकलुषिताया भूदेव्याः प्रसादनाय भगवदुक्तौ तद्व. क्रोक्तिः। मीनेक्षणे इत्यनेन निसर्गप्रसन्नलोचना त्वं नैवं जात्वपि रोषाविललोचनेति द्योतितम् । पुरतः स्थितं प्रार्थनार्थमिति भावः । कमनं त्वां कामयितारं वल्लभं मां न तूदासीनतयाऽवस्थित. मिति भावः । निरीक्षस्वति भगवत्कर्तृकप्रसादनोक्तिः । मन्द जल्प शठात्रेति भूदेव्याः प्रत्युक्तिः। हे शठ गूढविप्रियकारिन् अत्र मम संनिकर्षे मन्दं जल्प न तूच्चैः, विधाय विप्रियमतिमात्रं निर्भरानुरागमेदुर इव स्वैरं मा वादीः जाने त्वामिति भावः ।

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358