Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
522
अलङ्कारमणिहारे
यथा
वजशिलावालाश्चितमरकतकलतारुणाश्मपल्ल. विते । सह महिला विहरन्ते गृहनिवहे त्वत्कटाक्षिताइशौरे ॥ १९५५॥ ___ इदं समृद्धयुदाहरणम् । अत्रासंभाव्यमानविभूतियुक्तानां मगवत्कटाक्षितानां वर्णनालक्षणसंगतिः । संभाव्यमानविभूतियुक्तस्य वर्णने तु नायमलंकारः ॥
यथा
परिखचितवजरेखास्फुरितमहानीलजालचारुतमाः । सतटिजलदभ्रमदा वृषशिखरिण भान्ति ते विहारगहाः ॥ १९५६ ॥ ____ अत्र हि महाविभूतेर्भगवतो विहारगृहाणां वस्तुत एव संभवतीदृशविशेषः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवंचास्य नामापि सार्थकमिति विमर्शिनीकारः ॥ - श्लाघ्यचरितस्योपलक्षकत्वे यथा
जयतु स शैलो यत्र त्यक्तास्त्रं केनचिनिमित्ते. न । श्रीवासमब्जचके यतिराजो ग्राहयामास ॥
यतिराज भगवद्रामानुजाचार्यः । केनचिन्निमित्तेन तोण्डमान्नृपाय रिपुविजयकृते वितीर्णयोइशङ्खचक्रयोः पुनस्तद्वरदानावसरे अ रूपेऽस्मिन्पुनश्शङ्खचक्रधारणरूपतत्प्रार्थनलक्षणेन निमित्तेन त्यक्तास्त्रं त्यक्तशङ्खचक्रं भगवन्तं श्रीनिवासं शङ्खचक्रे ग्राहयामास । 'अंजग्रहत्तं जनको धनुस्तत्' इतिवाद्विकर्मकता । अत्र

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358