Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 330
________________ उत्तर : (९९) सर्वमिदं भूतविषय साक्षात्कारवर्णनम् । भविष्यद्विषयसाक्षात्कारवर्णनं यथा 321 अनुदिनमनुसंधानादर्चिर्मुख सरणिभाविसंमानाः । अद्यैव वसन्ति दृशोः पद्यायां श्रीनिवास तव कृपया ।। १९५४ ॥ अत्र बन्धावस्थायामशक्यदर्शनत्वेनाद्भुतानामचिरादिमार्गसंमानानां भाविनां साक्षात्कारवर्णनम् ॥ इत्यलङ्कारमणिहारे भाविक सरोऽष्टनवतितमः . अथोदात्तसरः (९९), तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् । अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ॥ यत्र संपत्समृद्धिमद्वस्तु वर्ण्यते, यत्र च महापुरुषसंबन्धिश्लाध्यचरितं ' यत्रायें सारसस्स देवदत्तकेदार:' इतिवदुपलक्षकतया वा निबध्यते तत्रोदात्तालङ्कारः । उपलक्षकं ज्ञापकम् । स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वात्मनः प्रथमोदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तं प्रथमम् । द्वितीयं तु महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितम्, महापुरुषचरितस्योदात्तत्वात् ॥ ALANKARAIII. 41

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358