Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 256
________________ पदप्रदानं कृतम् । तदवसरे मधुमतीनगरस्थजैनसङ्घन भूरिद्रव्यव्ययपूर्व महामहोत्सवोऽपि विहितः । उपाध्यायपदप्राप्त्यनन्तरमाचार्यपदप्राप्त्यवसरस्तु स्तोके नैव कालेन समुपस्थितोऽभवत् । वैक्रमीये नयन-ग्रह-ग्रहार्यम( १९९२) मिते संवत्सरे पूज्यगुरुभगवन्तो राजनगरे विराजमाना आसन् । उपाध्यायश्रीअमृतविजयगणिस्त्वन्यत्र विहरन्नासीत् । तदा गुरुभगवतां हृदि तस्मै आचार्यपदप्रदानस्याऽभिलाषो जातः । अतो भक्तश्रावकान् प्रेषयित्वा "तुभ्यं सूरिपदं दातुकामोऽस्मि, झटिति राजनगरमागच्छ" इति सन्देशः प्रहितः । तं श्रुत्वा सोऽपि “यथा गुरुवर्याणामाज्ञा, आज्ञा गुरूणामविचारणीया" इति प्रत्यत्तुरं दत्त्वा शीघ्रमेव विहारं कृत्वा राजनगरमागच्छत् । राजनगरे तु सूरिपदप्रदानार्थं सर्वमपि सामग्रीजातं सज्जीभूतमेवाऽऽसीत् । ततो भव्यजिनेन्द्रभक्तिमहोत्सवपूर्वकं वैशाखशुक्लचतुर्थीदिने शुभे मुहूर्ते पूज्यगुरुभगवद्भिः स्वकरकुड्मलाभ्यामेव श्रीजेशिंगभाई-श्रेष्ठिनो विशाले वाटिकापरिसरे उपाध्यायश्रीपद्मविजयगणि-पाठकश्रीलावण्यविजयगणिभ्यां सह तस्मै अपि आचार्यपदं प्रदत्तम् । तत्राऽवसरे आचार्यश्रीविजयपद्मसूरये शास्त्रविशारद-कविदिवाकरइति-बिरुदद्वयं, आचार्यश्रीविजयामृतसूरये शास्त्रविशारद-कविरत्नइति-बिरुदद्वयं तथा आचार्यश्रीविजयलावण्यसूरये शास्त्रविशारदकविरत्न-व्याकरणवाचस्पति-इति-बिरुदत्रयं चाऽपि प्रदत्तम् । ततश्च उपाध्यायश्रीअमृतविजयगणिः शास्त्रविशारद-कविरत्न-आचार्यश्रीमद्विजयामृतसूरीत्याह्वया जगति प्रसिद्धोऽभवत् । किञ्च पद्मरागमणीनामाकरे पद्मरागस्यैवोत्पत्तिरिव शासनसम्राजां श्रीमद्गुरुभगवतां शिष्यसमुदाये सर्वेऽपि प्रवरगुणगणालङ्कताः श्रमणा अभवन् । गुरुवर्यैः स्वयमेव निजकरकमलाभ्यांयेभ्यः सूरिपदं प्रदत्तं तेषु सप्तसु कश्चिनैयायिकः, कश्चित् सिद्धान्त विशारदः, कश्चित्तु न्याय-व्याकरण-साहित्येषु निष्णातः, कश्चिच्च चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः 239

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332