Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 330
________________ ५. ॥ श्रीचिन्तामणिपार्श्वनाथस्तो स्फुरत्प्रभावोज्ज्वलिताननाब्जं, ध्यानाग्निभस्मीकृतकर्मकाष्ठम् । सदोदितं कान्तगुणाभिरामं चिन्तामणि पार्श्वजिनेन्द्रमीडे ॥१॥ उपजातिः कल्पद्रुवत्प्रीणितविश्वविश्वा स्तेजस्विनो दिव्यसुखैकलीनाः । देवाः सदा यत्पदमानमन्ति, चिन्तामणि पार्श्वजिनन्तमीडे ॥२॥ धर्मं वरेण्यं प्रतिपाद्य यो हि, भवोदधेर्भव्यजनं ततार । तं नौमि निष्कारणविश्वबन्धुं, चिन्तामणिं पार्श्वजिनेन्द्रदेवम् ॥३॥ यदीयपादाम्बुजसेवनेन, पापानि नश्यन्ति पुरार्जितानि ।। भाग्योदयो विस्मयकृच्च वर्द्धते, __ चिन्तामणिं पार्श्वजिनन्तमीडे ॥४॥ मोहान्धहृद् वन्द्यतमाघ्रिपद्यं, स्वतेजसा निर्जितसोममित्रम् । जघन्यतः कोटिसुरैनिषेव्यं, चिन्तामणि पार्श्वजिनेन्द्रमीडे ॥५॥ परिशिष्ट विभाग 313

Loading...

Page Navigation
1 ... 328 329 330 331 332