Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 267
________________ सिंहश्रमणविलापः, प्रभोः वात्सल्यं च । भगवदुपरि अत्युत्कटां भक्तिं दधानः सिंहानगारः सततं चिन्ताचान्तचेताः सञ्जातः । अन्ये साधुसाध्व्यः निखिला पर्षदपि भृशमुद्विग्नमानसाः समभवन् । नहि कस्मै किमपि रोचते । अत्रान्तरे भगवान् श्रावस्तीतः विहृत्य मिण्डिकग्रामस्य बाह्योद्याने समवासरत् । वीरपरमात्मानमेव निजात्मनोऽप्यधिकतरं मन्यमानः सिंहानगारः भाव्यनर्थकल्पनाकदर्थितः क्षणमात्रमपि निर्वृतिमलभमानः ग्रामस्य बहिः अटव्यां क्वचननिर्जनप्रदेशे वृक्षाधस्तात् स्थितः रोरुदिति स्म । तस्यैवं रोदनध्वनिमाकर्ण्य न हि मानवपशुपक्षिण एवाऽपि तु समीपवर्तिवृक्षवनलतादयोऽपि निरुत्साहा निरानन्दा दुःखोद्विग्नाश्च समजायन्त । चुक्कस्खलित इव कोऽपि पथिकः तेन वर्त्मना गच्छन् दृष्टाऽनवरतं रुदन्तं सिंहमुनिं परमां ग्लानिमुपागतः । ग्रामाभ्यन्तरे आगत्य कमपि धर्मात्मानमुपलक्ष्याऽकथयत्-रे भ्रातः ! ग्रामबहिर्भागे एको मुनिः अविश्रान्ततया रोदिति विलपति च, नाऽहं तदुःखवर्णनं कर्तुं शक्तः, इतः कोऽपि तत्र गच्छतु तं सान्त्वयतु च । किं भवतां मध्ये कोऽप्येतत् न हि जानाति । भगवान् महावीरश्च तज्ज्ञात्वा सिंहमुनेरावानाय मुनीन् प्रेषयति । मुनयः ग्रामबहिर्भागे गत्वा सिंहसाधुं कथयन्ति रे ! शब्दयति त्वां वीरः । सत्वरमागच्छ ।' 'किं मन्दभाग्यस्तत्राऽऽगत्य करोमि ? षण्मासाम्यन्तरे एव अस्माकं मध्यात् प्रभुः परलोकं प्राप्स्यति ।' ततः कथं कथमपि मनोऽधृतिं विमुच्य सिंहः भगवत्समीपे समागच्छत् । वात्सल्यामृतमहोदधिः भगवान् सुधामधुरया वाचा तं समाश्वासयत् । प्रभोः भवजलधिपोतायमानं चरणकमलं प्रणमन्तं वन्दमानं शुश्रूषन्तं च सिंह रुदित्वा रुदित्वा सञ्जातरक्तलोचनं परमदैन्यमुपगतं वीक्ष्य वीरः परमवत्सलतया जगाद भो सिंह ! किमु त्वं प्राकृतजन इवाऽधृतिं विविध हैम रचना समुच्चय 250 - -

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332