Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 327
________________ समागतः शिष्यगणैः सहात्र, ____पन्नयासवर्यो जितपूर्वशब्दः । क्रियैकनिष्ठो विजयाभिधानः, परोपकाराभिरतो गणीन्द्रः ॥५॥ विदन् विद्यानन्दो विजयपदयुक्तो मुनिवरो, जयन्ताख्यः साधुः प्रभविजययुक् ज्ञाननिरतः । सदाभ्यासे लीनोऽमृतविजयमध्येप्रभ इति, चकारैभिसार्द्ध स्थितिमिह चतुर्मास युगलम् ॥६॥ नाभेयचैत्यं जरितं निरीक्ष्य, कालेन सद्धं समुपादिदेश । तदुद्धृति कारयितुं मुनीशः, सङ्घोऽपि तद्वाक्यमुरीचकार ॥७॥ जीर्णोद्धृतेः कर्मणि सन्निवृत्ते, त्रिसिद्धिधर्माक्षिमितेऽथ वर्षे । प्रातितिष्ठिपत् फाल्गुनमासि कृष्णे, गौरीतिथौ भानुमतीशबिम्बम् ॥८॥ (सं. २४८३) 310 विविध हैम रचना समुच्चय

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332