Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 331
________________ प्रसादतो यस्य पलायतेऽसुखं, प्रजायते मङ्गलसौख्यसन्ततिः । सर्वेष्टदं 'साभ्रमती' विभूषणं, चिन्तामणिं पार्श्वजिनन्तमाश्रये ॥६॥ वंशस्थः यन्मूर्तिरिन्दुर्दुरितप्रणाशिनी, सद्भक्तिर्माच्चत्तचकोरहारिणी । श्रेयस्करी चारूसुधाभिवर्षिणी, चिन्तामणि पार्श्वजिनन्तमाश्रये ॥७॥ वंशस्थः यज्ज्ञानगोभिरतुलं प्रसृतं जगत्यां, जाड्यन्तमो दिनकरेण यथा निरस्तम् । लोकाग्रमव्ययपरम्पदमभ्युपेतं, चिन्तामणि भजत भव्यजनास्तमीडयम् ॥८॥ वसन्त. ग्रहाभ्रखाक्षिप्रमितेऽथ वर्षे, (२००९) मार्गे च मासे दशमीसुतिथ्यां, जाता यदीया प्रवरा प्रतिष्ठा, . चिन्तामणिं पार्श्वजिनन्तमीडे ॥९॥ इत्थं हि चिन्तामणिपार्श्वनाथ स्तोत्रं मनोज्ञं कृतवान् सुभक्त्या । श्रीनेमिसूरेरमृतस्तदीय देवस्य शिष्यो मुनि हेमचन्द्रः ॥१०॥ विराजतां पाठकपुङ्गवः स, स्याद्वादसद्दर्शनतत्त्वविज्ञः । श्रीमेरुनामा हितकृत्यरक्तो, यत्प्रेरितः स्तोत्रमिदं व्यधत्त ॥११॥ (रचना : सं. २०१८ - साबरमती) 314 विविध हैम रचना समुच्चय

Loading...

Page Navigation
1 ... 329 330 331 332