Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 329
________________ गुणैर्गरिष्ठो जिनधर्मरक्तो, ___ गुलाबचन्द्रोऽवसदिन्द्रकीर्तिः । कल्पद्रुवद्यो विभवं वितीर्य, नृणामसद्भाग्यमरं न्यमार्जीत् ॥५॥ स वैक्रमाब्देऽब्धिरसाङ्कचन्द्रे (१९६४) श्री देवचन्द्राह्वपितुः शमर्थम् । सूरीश्वरानन्दगुरुपदेशा ल्लक्षं ददौ श्रीश्रुतपोषणाय ॥६॥ ताताभिधानाकलिताऽऽगमादि __ प्रकाशिकां सच्छृतभक्तिनिष्ठः । संस्थाप्य संस्थां स कृतीमहार्थाः, प्राकाशयत्प्राच्यमनीषिदृब्धाः ॥७॥ अद्यावधि ज्ञानप्रचारद: रुत्साहिभिः कार्यकरैस्तदीयैः । सिद्धि-धु-चन्द्र प्रमिता महार्थाः, __ प्रकाशिताः सत्कृतयो विभान्ति ॥८॥ संस्थोन्नतौ प्रोद्यतमानसेषु, मुक्तेन्दुना केशरिचन्द्रमुख्याः । तच्छ्रेष्ठिनो जीवनचन्द्र-चन्द्र, वदातकीत्यै सततं यतन्ताम् ॥९॥ स्वर्णोत्सवे निरुपमेऽर्द्धशताब्दिकेऽस्याः, __ श्रीनेमिसूरिविजयामृतदेवशिष्यः । पन्यासमेरुविजयाप्तनिदेशदक्षो, मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ॥१०॥ ( देवानन्द सुवर्णांक माटे) (सं. २०१४) 312 विविध हैम रचना समुच्चय

Loading...

Page Navigation
1 ... 327 328 329 330 331 332