SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ एवं पनां पद्महस्तां मुरमर्दनदेविकाम् ॥ ६ ॥ नारायणी वा कल्याणी प्रजारक्षणतत्पराम् । सर्वक्षेमंकरी लक्ष्मी महिषी माधवस्य च ॥ ७॥ नानायन्त्रसमोपेतां नानालङ्कारमण्डिताम् । भद्रपीठस्थितां वापि क्षेत्रपाठस्थितान्तु वा ॥ ८॥ किश्च तादृशहस्तषु स्थापनीयडमरुशूल घण्टाकमलपाशशूलाद्यायुधक्रमस्तु मूर्तिध्यानाख्यशिल्पग्रन्थे बोध्य इति च क्रमः । एवं संक्षेपेण सकलविधशिवदेवीयराणां भेदक्रमः प्रतिपादितो ज्ञेयः ॥ ___ अथ विष्णुदेवीबेरभेदक्रममाह - एवं पद्मामित्यादिना। वैकुण्ठनाथस्य वा तेषु तेषु दिव्यक्षेत्रध्ववतीर्णस्य भगवतो नानारूपिणो देवस्य माधवस्य महिषी नारायणी माधवीं कल्याणी वा बेररूपवती तत्र देववेदिकामध्ये गर्भगृहे स्थापयेत् । क्वचित् रामस्य सीतादेवीं, वासुदेवस्य रुक्मिणी सत्याञ्च बेररूपवती स्थापयेत् । अपि चान्यत्र देवालये सर्वेषामपि भक्तानां ज्ञानानन्ददायिनी हयग्रीवदेवमहिषी वा लोकजननी शारदादेवीं वा वररूपवती स्थापयेत ॥ तस्माच्छिवदेवीवराणां विष्णुदेवीबेराणां सर्वेषां शारदादेव्यादिबेराणाश्च स्थापनन्तु प्रायशस्तत्र तत्र भद्रपीठे वा भद्रासन वा सिमासने वा पूर्वोक्तत्रिकोणाद्यासनफलकासु वा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy