Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 312
________________ ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । २८१ मध्ये षडङ्गुला रेखा बाह्यसूत्रात् परे भवेत् । पूर्वस्मिन् बाह्यलेखा तु मध्ये (सास्या)दष्टमात्रका ॥ ३२ ॥ नाभिदेशे परे भागे बाह्यासौ सप्तमात्रका । कलामानं भवेन्नाभिस्तस्याः पूर्व नवाझुला ॥ ३३ ॥ परे भागे कटिः सप्त मात्रा दश च पूर्वतः । ऊरुलेखा परे भागे मुखमानस्य मध्यतः ।। ३४ ॥ प्राग्भागस्य बहिर्लेखा + ++ परजानुतः । (परभागेन्द्रवास्तेश्च सूत्रस्यात् तद्वदगुले) ।। ३५ ।। परस्य नलकस्य स्याल्लेखा प्रागगुलान्तरे । परभागस्य षष्ठांशाः (सूत्रा प्रागङ्गुलद्वयोः) ।। ३६ ॥ नलेन परपादस्य भूमिलेखा विधीयते । ततोऽङ्गुष्ठोऽङ्गुलेनाधः पाणिरूवं तदर्धतः ।। ३७ ॥ अङ्गुष्ठाग्रं ब्रह्मसूत्रात् परस्मिन् पश्चमात्रकाः । तलं च परभाग स्तियेक पञ्चाङ्गुलं स्मृतम् , (सत्वितस्तलघाटप्यः?) स्यादङ्गुष्ठाग्रं कलात्रये । अगुल्योऽङ्गुष्ठतः सवा (बजत्परयं?) क्रमात् ।। ३९ ।। (सन्निवेशसवासाद द्विरङ्गुल्यतो.) नवाङ्गुलः । यथोक्तं जानु पूर्व स्यात् सूत्रतश्चतुरङ्गुले ॥ ४० ॥ नलकस्तद्वदेवास्य नलको व्यङ्गुलान्तरौ । (सूत्रादक्षः कलास्तिस्राङ्गुष्ठस्त्वमुलत्रयम् ) ॥ ४१ ॥ भूमिसूत्राद् गतोऽधस्तात् पूर्वाङ्गुष्ठो भवेत् कला । अङ्गुष्ठोऽगुलयश्चेति सर्वमन्यद् यथोदितम् ॥ ४२ ।। (दृश्यपार्श्वतलप्रविपारंही!) मध्यमे तलम् । एवमुक्तप्रमाणेन ज्ञात्वा युक्त्या समादिशेत् ॥ ४३ ।। अर्धवागतमित्येतत् प्रवरं स्थानमीरितम् । लक्ष्म (सा वो साची)कृतस्याथ स्थानकस्याभिधीयते ।। ४४ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364