Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 329
________________ २९८ समराङ्गणसूत्रधारे अथ रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः । रसानाम(स्यथ) वक्ष्यामो दृष्टीनां (इ) लक्षणम् । तदायत्ता यतश्चित्रे भावव्यक्तिः प्रजायते ॥ १॥ शृङ्गारहास्यकरुणा रौद्रप्रेयोभयानकाः । वीर(प्रत्ययाक्षौ?) च बीभत्सश्चाद्भुतस्तथा ॥ २ ॥ शान्तश्चैकादशेत्युक्ता रसाश्चित्रविशारदैः । निगद्यते क्रमेणैषां सर्वेषामपि लक्षणम् ॥ ३ ॥ सभ्रूकम्प(कटीक्षपेच?) तथा प्रेमगुणान्वितः । यन्त्रेष्टललिता चेष्टा स शृङ्गारो रसः स्मृतः ।। ४ ।। विकासिललितापाजो मृदु चा(१)स्फुरिता(धारः।। लीलया सहितो यश्च स हास्यो रस उच्यते ।। ५ ।। अश्रुक्लिन्नक(पो)लान्तः शोकसङ्कुचितेक्षणः । चित्तसन्तापसंयुक्तः प्रोच्यते करुणो रसः ॥ ६ ॥ निर्मार्जितललाटान्तः संरक्तोद्वृत्तलोचनः । दन्तदष्टाधरोष्ठो यः स रौद्रो रस उच्यते ॥ ७ ॥ अर्थलाभसुतोत्पसिप्रियदर्शनहर्षजः । सञ्जातपुलकोद्भेदो रसः प्रेमा स उच्यते ॥ ८॥ वैरिदर्शनविनाससम्भ्रमोद्धान्तलोचनः । हृदि संक्षोभयोगाच रसो ज्ञेयो भयानकः ॥९॥ (अष्टावष्टम्भसमे)सूत्रसङ्कुचितानतः । धैर्यवीर्यबलोत्प(मान्नः) स वीरस्तु रसः स्मृतः ॥ १० ॥ (ईषेदुप्तसित्तत्र कस्तच्चा)स्तिमिततारकः । असम्भाव्यं विलोक्यार्थमद्भुतो जायते रसः ॥ ११ ॥ १. 'चेह' इति स्यात् । २. इह वीरादनन्तरयोर्दयो रसयोर्लक्षणं लुप्तम् । "Aho Shrut Gyanam

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364