Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२९६
समराङ्गणसूत्रधारे एवमेवोदरं नाभिमेढ्योरन्तरं दश । विंशतिश्चाङ्गुलान्युरू जत्रे च त्रीणि जानुनी ।। ५ ।। त्रीण्यगुलान्यङ्गुले च केशभूरङ्गुलद्वयम् । केशान्तमानं सर्वेषामधिकं स्यात् स्वमानतः ॥ ६ ॥ विस्तारेण भवेद् वक्षस्तस्यैवाङ्गुलविंशतिः । द्वादशाङ्गुल(विस्तारो बाहुसंसस्य) निर्दिशेत् ।। ७ ॥ दशाङ्गुलौ प्रकोष्ठौ च (हस्ततथे ++++ ?) । तथा पृथक्पृथक् च्छोणिः पीनाङ्गुलि(?) ततो भवेत् ॥ ८॥ हंसस्वभावेन पृथग + + म्भारनासिकः (१) । (शेसस्यः) व्यङ्गुलं ++ नासिका वक्त्रमेव च ॥ ९॥ ग्रीवापि तत्प्रमाणैव (यव)क्षस्त्वेकादशाङ्गुलम् । तथादरं तथा नाभिमेढ़योरन्तरं दश ॥ १० ॥ ऊरू विंशतिमात्रौ च शशस्य परिकीर्तितौ । व्यङ्गुले जानुनी (लज)ङ्के मात्राविंशतिमायते ।। ११ ।। गुल्फो च व्यगुलायामौ तावन्मात्रं शिरो भवेत् । आयामो(य?ऽयं) शशस्यै(व?) स्यान्नवत्यगुलोन्मितः।। १२ ॥ द्वाविंशत्यङगुलं (वैक्ष्यां) विस्तारेणास्य कीर्तितम् । बाहुप्रबाहू पाणी च शशकस्यापि हंसवत् ।। १३ ।। समयाच्च स कर्त(व्या?व्य): स्वभावाच्च कृशोदरः । (तथोयवेत् केशोरुजको द्विद्वान् ?) विचक्षणः ॥ १४ ॥ रुचकस्य (तुखायामद्याम?) प्रोक्तः सार्धदशाङ्गुलः । ग्रीवाङ्गुलत्रयं सार्धमायामेनास्य कीर्तिता ।। १५ ।। एकादशाङ्गुलो(व्यापूर्वकृस्तस्य?) प्रमाणतः । तावन्त्येवोदरं तस्य नाभिमेद्वान्तरं दश ॥ १६ ॥
१. 'विस्तारौ बाहू इंसस्य' इति स्यात् । २. 'शशस्य' इति स्यात् ३. 'वक्षो' इति स्यात्। ४. 'मुस्खायामः' इति स्यात् । ५. 'न्याहुर्वक्षस्तस्य' इति स्यात् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364