Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४३०
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-तत्पुरुष समासे षष्ठ्या : पुत्र-शब्दे उत्तरपदे विकल्पेनाऽलुग् भवति, आक्रोशे गम्यमाने।
उदा०-दास्याः पुत्र इति दास्या:पुत्रः, दासीपुत्रः। वृषल्या:पुत्र:, वृषलीपुत्रः।
आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष समास में (षष्ठ्या:) षष्ठीविभक्ति का (पुत्रे) पुत्र-शब्द उत्तरपद होने पर (अन्यतरस्याम्) विकल्प से (अलुक्) अलुक् होता है (आक्रोशे) यदि वहां आक्रोश भर्त्सना अर्थ प्रकट हो।
उदा०-दास्या:पुत्रः, दासीपुत्र: । दासी का पुत्र । वृषल्या:पुत्रः, वृषलीपुत्र: । वृषली का पुत्र।
सिद्धि-दास्या:पुत्रः। यहां दासी और पुत्र शब्दों का 'षष्ठी (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में तथा आक्रोश अर्थ की प्रतीति में पुत्र-शब्द उत्तरपद होने पर षष्ठी विभक्ति का अलुक होता है। विकल्प पक्ष में सपो धातुप्रातिपदिकयो:' (२।४।७१) से षष्ठीविभक्ति का लुक् होता है-दासीपुत्रः। ऐसे ही-वृषल्या:पुत्रः, वृषलीपुत्रः । षष्ठी-अलुक्
(२३) ऋतो विद्यायोनिसम्बन्धेभ्यः ।२३। प०वि०-ऋत: ५।१ विद्या-योनिसम्बन्धेभ्य: ५।३ ।
स०-विद्या च योनिश्च ते विद्यायोनी, विद्यायोनिभ्यां कृत: सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, तेभ्य:-विद्यायोनिसम्बन्धेभ्यः (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः)।
अनु०-अलुक्, उत्तरपदे, तत्पुरुष, षष्ठ्या इति चानुवर्तते। अन्वय:-तत्पुरुषे ऋतो विद्यायोनिसम्बन्धेभ्य: षष्ठ्या उत्तरपदेऽलुक्।
अर्थ:-तत्पुरुष समासे ऋकारान्तेभ्यो विद्यासम्बन्धवाचिभ्यो योनिसम्बन्धवाचिभ्यश्च शब्देभ्य: परस्या: षष्ठ्या उत्तरपदेऽलुग् भवति ।
उदा०-(विद्यासम्बन्ध:) होतुरन्तेवासीति-होतुरन्तेवासी। होतुःपुत्रः । (योनिसम्बन्ध:) पितुरन्तेवासीति-पितुरन्तेवासी। पितु:पुत्रः ।
आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष समास में (ऋत:) ऋकारान्त (विद्यायोनिसम्बन्धेभ्य:) विद्यासम्बन्धवाची और योनिसम्बन्धवाची शब्दों से परे (षष्ठ्या:) षष्ठी विभक्ति का (उत्तरपदे) उत्तरपद परे होने पर (अलुक्) अलुक् होता है।