________________
८३६
काव्यमाला। विल आशयो हृदयं मध्यं यस्य । पुनः किं कुर्वन् । कुशेशयं कमलं तस्य पलाशं पत्रं तदिव निर्गत उपलेप: संसाराभिष्वङ्गः लिम्पनं च यस्मात्तस्य भावस्तत्ताम् । निर्लेपतामित्यर्थः । भजन्नाश्रयन् । च पुनः कदापि कस्मिन्नपि समये भारुण्डवद्भारुण्डपक्षीव प्र. मद्वरपदं प्रमादस्थानम् । प्रमत्ततामित्यर्थः । 'जनैव दधत् मा भूः क्वापि प्रमद्वरः' इति पाण्डवचरित्रे । पुनः किंभूतः । विमलभूधरं शत्रुजयशैलं भूषयनलंकुर्वन् । क इव । विशेषक इव । यथा तिलको ललाटं भूषयति ॥ इति हीरसूरिकृता ऋषभदेवस्तुतिः ॥
इत्यभिष्टुत्य सूरीश्वरः श्रीजिनं भालविन्यस्तहस्तद्वयाम्भोरुहः । इष्यशाखी फलाप्तेरिवामोदवान्प्राणमद्भूतलालम्बिमौलिस्थलः ॥१११॥
भूतलं पृथ्वीपीठमालम्बते इत्येवंशीलं मौलिस्थलं मस्तकं यस्य तादृशः सन् सूरी.. श्वरो हीरविजयसूरिवासवः श्रीजिनमृषभदेवं प्राणमत्प्रणनाम नमस्करोति स्म । किं कृत्वा । भाले ललाटे विन्यस्तं स्थापितं हस्तयोर्द्वयं करयोर्युगलमेवाम्भोरुहं कमलं येन . तादृशः सन् इति पूर्वोककाव्यैरभिष्ट्रय स्तुतिं कृत्वा । किंभूतः सूरिः । फलाप्तेः श्रीशमुंजययात्राऋषभदेवदर्शनादिरूपफलस्य प्राप्तेः सकाशादामोदवान् परमानन्दकन्दकन्दलितहृदयः । क इव । इष्यशाखीव । यथा वसन्ततर्भूतले मेदिनीमण्डले मिलन्यो मस्तकस्य शिखरस्य शाखा यस्य तादृशः फलानामुपलक्षणात्पल्लवपत्रकुसुमानां च लाभादामोदवान्परिमलकलितः प्रकर्षेण नमति ॥ निववृते प्रमदेन्दिरयान्वितः स जिनगर्भगृहान्तरतस्ततः ।
चतुरिकोदरतोऽभिनवोढया वर इवामृतदीधितिवक्त्रया ॥ ११२ ॥ ततो जिनस्तुतिनुतिकरणानन्तरं स सूरिर्जिनस्य ऋषभदेवस्य यो, गर्भगृहो गर्भागारस्तस्यान्तरतो मध्यान्निववृते निवृत्तः पश्चाद्ववले । 'निववृते स महार्णवरोधसः' इति रघौ । बहिराजगामेत्यर्थः । किंलक्षणः । प्रमदेन्दिरया प्रमोदलक्ष्म्या अन्वितो युक्तः । क इव । वर इव । यथा वरयिता परिणेता अभिनवोढया तात्कालिकंपरि. णीतया अमृतदीधितिवक्त्रया चन्द्रमुख्या आह्लादकृद्वदनया सहितः । चतुरिकोदरतः 'चउरी' इति प्रसिद्धाया मध्यतः गर्भानिवर्तते बहिरागच्छति ॥
शांभवाद्वहिरुपेत्य सद्मनः पर्षदो वसुमतीपतेरिव ।।
द्वारि धीसख इव प्रवेशने धर्मकृत्यविधये स आसितः ॥ ११३ ॥ स हीरसूरिः द्वारि प्रासादद्वार देशे आसित उपविष्टः । कस्मै । धाणि धर्मसंवन्धीनि दीक्षोपस्थापनाव्रतोच्चारादीनि कृत्यानि कार्याणि तेषां विधिः शास्त्रोक्तप्रकारेण करणं तदर्थम् । क इव । यथा सचिवः प्रधानः धाणां न्यायव्यवहारोपलक्षितकार्याणां राजप्रजासंबन्धिना विधये प्रवेशने आसितो भवति । किं कृत्वा । शांभवात्तीर्थकरसंबन्धिनः सद्मनः मन्दिराबहिर्वाह्यप्रदेशे उपेत्यागत्य । कस्या इव । पर्षद इव । यथा धीसखो वसुमतीपतेः पर्षदः सभाया बहिरेत्य सिंहद्वारे राजप्रजाकार्यार्थमुपविशति ॥