Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
शिष्यैः निर्यामणा ।
निरूप्य नाडीं गुरुवर्यदेहे, न्यगादि तेनाऽपि सुकोविदेन ।
अतीव मन्दाऽस्ति शरीरनाडी,
निवेदिका चान्तिमलक्षणानाम् ॥ २७८ ॥
सर्वे मुनीन्द्रा बहुशोकमग्ना,
आसँस्तदाऽऽचार्यवरैकभक्ताः ।
अश्रावयन् पूतनमस्कृतीश्च,
4.
तथा पयन्ना 'दिसुपाठमुख्यान् ॥ २७९॥
पश्चाच्चतुर्वादनकस्य रात्रेः, प्रतिक्रमं चेतनशुद्धिहेतुम् ।
विज्ञा मुनीन्द्राः प्रविधातुकामा
स्तत्रोपविष्टा नियमैकनिष्ठाः ॥ २८० ॥
प्रतिक्रमं नित्यविधि विधाय, सूरीन्द्रवर्यस्य समीपमेते ।
उपाविशंस्तीर्थकरोपदिष्टान्,
निशामयन्तो भवदारशब्दान् ॥२८१॥
आचार्यराजा अरिहंतदेव
ध्यानैकलीना हि तदा समासन् ।
श्रीवीर वीरेति पुनः पुनस्ते,
उच्चारयन्तः शुभभावनाढ्याः ॥२८२॥
आयुष्यकर्मावलिपूर्णतायां,
सूरीश्वरोऽसौ सुसमाधिनिष्ठः ।
औदारिकं देहमिमं विहाय,
निर्वाणभावं समवापदुच्चैः ॥ २८३ ॥
४५३

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502