Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 487
________________ ४६८ दिनस्ततोऽसावुदयादिपुर्याः, संघस्य मुख्यैरपि निश्चितो वै । अनन्तरं सूरिमते मुहूर्ते, शुभप्रतिष्ठाकरणोद्यतास्ते ॥ ३५५॥ ततोऽनु पूर्वोक्तनवाङ्कभाजो, मुनीन्द्रवर्या उदयादिपुर्याः । चित्तोडदुर्गं प्रति सद्विधिज्ञा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् व्यहार्षुरेते कृतिबद्धलक्ष्याः ||३५६ ॥ फत्तेहपूर्वं नगरं च गत्वा, ततः करेडाभिधतीर्थमुच्चम् | ते सन्मुनीन्द्रा भविबोधदक्षाः, - शीघ्रं समागुर्वरबोधयुक्ताः ॥३५७॥ वीयावराख्ये नगरे स्थितो यो, वर्षर्तुवासार्थमतीव विज्ञः । भीमानुपाध्यायपदाङ्कितोऽसौ, धीमान् दयायुग्विजयाभिधानः ॥ ३५८ ॥ मालिनी चरणविजयनामा साधुधुर्यश्च सौम्यो, मलयविजयनामा सदूरौ भक्तिशाली । गुरुवरवरनीतेर्नीतिसूरेर्निदेशाद्, भुवि विदिततमेऽस्मिन् प्रास्थितास्ते हि तीर्थे ॥ ३५९ ॥ ( युग्मम् )

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502