Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 496
________________ सूरिनिर्वाणनिमित्तक अष्टाह्निका महोत्सव: लोहकार प्रतोल्यादि स्थानके ४७७ अष्टाह्निकाह्वः सुमहोत्सवो वै, व्यधायि पूर्वं प्रवरे च तस्मिन् । श्रीरैवताख्यस्य सुपर्वतस्य, चित्तोडदुर्गस्य च तीर्थभूमेः ॥४०१ ॥ तथैव गीर्वाणगिरेः सुमेरोर्महद्धिजुष्टस्य गिरीश्वरस्य । अकारि भव्या रचनाऽतिरम्या, सच्छ्रावकैर्भावयुतैः सहर्षम् ॥ ४०२ ॥ जिनेश्वराणां प्रतिमोत्तमानाम्, आङ्गीति ख्याता रचिता सदैव । सुगन्धिपुष्पैर्वरभूषणैश्च, शोभाऽतिभव्या समभूच्च तस्याः ॥ ४०३ ॥ तथा सदा सुन्दररागपूर्व मपाठयन्ताऽत्र वराः सुपूजा: । अष्टोत्तरीस्नात्रमथो पवित्रं, (त्रिभिर्विशेषकम् ।) व्यधायि भक्तैर्वरशुद्धभावैः ॥ ४०४ ॥ तथा प्रसिद्धे हेलाभिधाने, उपाश्रये वै समकारि रम्यः । अष्टाह्निकाख्यः सुमहोत्सवश्च, भव्यैः प्रकारैर्जिनभक्तिभाग्भिः ॥४०५॥

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502