Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 497
________________ ४७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिखरिणी - महापूजामुख्या वरविलमभावा विधियुता, शुभा नैकाः पूजाः सकलभविचेतस्सुखकराः । अपाठ्यन्त श्राद्धैर्जिनपरमभक्तैर्बहुविधाः, सुवाद्यैः सद्रागैर्जनहृदयहारिभिरतुलैः ॥४०६॥ गीतिः - तथैव वीरविजयाह्व, उपाश्रये चापि राजनगरस्थे । अष्टाह्निको महोत्सवो, व्यधीयत श्राद्धपुङ्गवैभव्यः ॥४०७॥ तत्राऽकारि समवसरण भरतमहाराजसभाप्रभृतीनाम् । चित्र-विचित्रपदाथै, रचना भव्या तदा सुशिल्पिवरैः ॥४०८॥ शिखरिणी - तथा शान्तिस्नात्रं विविधविधिपूर्णं सुखकर __मपाढ्युच्चैः श्राद्धैर्भविकजनताह्लादजनकम् । त्रिषु स्थानेष्वित्थं व्ययितमतिभक्त्या बहुमुदा, __ मिलित्वा रूप्याणामयुतमुरुभावैर्भविवरैः ॥४०९॥ उपजातिः - एवं व्यधायि प्रचुरव्ययेन, श्रीशामलाह्वे जनवित्तपोले । अहम्मदावादपुरे तदानी मष्टाह्निकाह्वः सुमहोत्सवो वै ॥४१०॥ १. दश सहस्राणि ।

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502