Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 489
________________ ४७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - चित्तोडदुर्गजिनचैत्यवरप्रतिष्ठा श्रीमन्महोत्सवकृतौ दृढबद्धलक्ष्याः । तेऽष्टादशप्रमितसाधुवरेन्द्रधुर्या स्तत्राऽमिलन् प्रचुरहर्षयुतास्तदानीम् ॥३६५॥ उपजाति: - पुरेष्वनेकेषु सुविश्रुतेषु, ग्रामेषु नैकेषु च संघमुख्याः । प्रैषुश्च सत्कुङ्कमपत्रिकास्ते, शुभप्रतिष्ठाकरणस्य शीघ्रम् ॥३६६॥ सूरीश्वराकस्मिककालधर्मात्, शीघ्रं प्रतिष्ठासमयागमाच्च । सर्वस्थले कुङ्कमपत्रिका वै, न संगता यद्यपि ता यथेष्टम् ॥३६७॥ तथापि पुण्ये सुमहोत्सवेऽस्मिन्, श्रीमेदपाटाभिधरम्यराष्ट्रात् । तथैव देशाद् मरुधन्वमुख्याद्, आगाज्जनानामयुतं तदानीम् ॥३६८॥ (युग्मम्) गीतिः - जामनगरपुरवासी, संघवीतिविदितोपनामयुक्तः । लक्ष्मीचन्द्रस्य पुत्र श्शुनीलालाह्वः श्राद्धवंशदीपः ॥३६९॥

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502