Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 483
________________ ४६४ ... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूरिमन्त्रस्य जपं पवित्रं, - - प्रारब्धवान् सद्विधियोगशुद्धम् ॥३३३॥ गीतिः - ___ तथा च तपागच्छीय सामाचारीसूरिमन्त्रपट्टम् । आरब्ध तत्र जापे, व्यत्यैषीत् प्रहरद्वयं स नित्यम् ॥३३४॥ (युग्मम्) उपजातिः - सूरीश्वरश्चाऽन्तिमसार्धवर्षाद्, रुजाऽभिभूतः समभूदतीव । तादृक्प्ररुग्णस्थितिवर्तमानो ऽप्येकाग्रचित्तेन जपं व्यधात्सः ॥३३५॥ विहाय निर्वाणदिनं स जापः, सूरीश्वरेणाऽस्खलितो हि जप्तः । स तस्य चारित्रमहाप्रभाव स्तथा तदाध्यात्मिकमोज आसीत् ॥३३६॥ स सार्थसंवत्सरजन्यरोगात्, कदापि न व्याकुलतामगच्छत् । असोढ किन्त्वार्तिमसौ प्रशान्त्या, शरीररोगप्रभवां प्रभूताम् ॥३३७॥ वंशस्थवृत्तम् - स भावयन्नात्मनि शुद्धभावनां, तथा ह्यकार्षीन्निजकर्मनिर्जराम् ।

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502