Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 492
________________ चित्तोड दुर्गोपरि जिनालयानां प्रतिष्ठा । सोऽवास्थित श्रेष्ठतमेऽतितुङ्गे, चित्तोडदुर्गोपरिराजिते च । राष्ट्राधिराजस्य महाप्रतिष्ठे, गीतिः - उपजाति: प्रासादवर्ये बहुमानजुष्टः ॥ ३८० ॥ पुण्यप्रतिष्ठासुविधिं विधातुं, तत्रागमच्छ्रीकचुकीत्युपाह्वः । श्रीमोतिलालात्मजचन्दुलालो, जैनप्रतिष्ठाविधिसुप्रतिष्ठः ॥ ३८१ ॥ चीमनलालाभिधश्च, सकरचन्द्रस्य तनुज उच्चशीलः । इत्यादिका विधिज्ञाः, क्रियां विधातुं समागतास्तत्र ॥ ३८२॥ श्रीमाघमासस्य सिते सुपक्षे, पुण्यद्वितीयाख्यतिथौ सुलग्ने । भूरिप्रमोदैः सह सज्जनानां, तत्र प्रतिष्ठा समभूत् सुभव्या ॥३८३॥ तस्मिन् प्रतिष्ठादिवसे पवित्रे, व्याधात् प्रपूतां नवकारशीं च । श्रीमान् भगूभाइधनिप्रसिद्धः, श्रीचूनिलालात्मज ईड्यकीर्तिः ॥ ३८४ ॥ ४७३

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502