Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 488
________________ ४६९ चित्तोडतीर्थ प्रतिष्ठाट कृते समागता मुनिवराः । उपजातिः - सर्वे मुनीन्द्रा नवसंख्यका ये, ज्ञानोद्यताः संयमलीनचित्ताः । तांस्तेऽमिलन्नुक्तमुनिप्रवेका, नेतुं प्रतिष्ठासुमहोत्सवेऽत्र ॥३६०॥ विहृत्य तस्मात् सुवरेण्यतीर्थाद्, विद्याऽतिवित्तो वरसंयमाढ्यः । श्रीमानुपाध्यायपदाभिधर्ता, दयादिशब्दो विजयान्तनामा ॥३६१॥ गणीशपन्यासपदाङ्कितश्च, मनोहरादिविजयाभिधानः । तथा च पन्यासपदाभिजुष्टः, शमीशसंपद्विजयो गणीन्द्रः ॥३६२॥ इत्यादयस्ते सुचरित्रवित्ता श्चित्तोडदुर्गं त्वरया समागुः । तत्राऽमिलस्तान् यमिनामधीशान्, अवस्थिताः पूर्वमिमे मुनीशाः ॥३६३॥ भद्रङ्कराख्यो विजयावसान, उमेदपूर्वो विजयो मुनिश्च । श्रीचम्पकाग्र्यो विजयान्तरम्यः, संमिल्य सर्वे बहुमोदमापन् ॥३६४॥ (युग्मम्)

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502