Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam Author(s): Vikramvijay Publisher: Chandulal Jamnadas View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গালিহানাঘায় নমঃ। आत्मकमललब्धिसूरीश्वरसद्गुरुभ्यो नमः । मुनिवरश्री चन्द्रविजयजीविरचित शान्तिश्लोकः सटीकः । सकल-कुशलवल्ली-पुष्करावर्तमेघो, दुरिततिमिरभानुः कल्पवृक्षोपमानः । भवजलनिधिपोतः सर्वसम्पत्तिहेतुः, स भवतु सततं वः श्रेयसे शान्तिनाथः ॥ १॥ प्रणम्य परमां देवीं, शारदां शास्त्रपारदां । शुभश्लोकस्य श्रीशान्तः,किञ्चिद्व्याख्या करोम्यहम्॥१॥ तत्रादौ संक्षिप्तव्याख्यास शान्तिनाथो, वो-युष्माकं, श्रेयसे-कल्याणाय वा मुक्तये भवतु, किं विशिष्टः स शान्तिनाथः ! सकलकुशलवल्लीपुष्करावर्तमेषः, पुनः किंविशिष्टः ! दुरिततिमिरभानुः, पुनः किंविशिष्टः ! कल्पवृक्षोपमानः, पुनः किंविशिष्टः ! भवजलनिधिपोतः, पुनः किंविशिष्टः । सर्वसंपत्तिहेतुः, स शान्तिनाथो भगवान् युष्माकं [ सततं ] श्रेयसे-कल्याणाय भवत्विति । For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31