Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गृहन्नपि स्वगतस्य सद्रव्यत्वादेरेकस्यांशस्य निर्णयमुत्पादयति न पुनः स्वगतस्यापि द्वितीयस्य स्वर्गप्रापणशक्त्यादेरंशस्येति सांशतां पश्चाद् बदतः सौगतस्य कथं पूर्वापरविरुद्धं वचो न स्यात् । एवं निर्विकल्पकमध्यक्षं नीलादिकस्य वस्तुनः सामस्ते(स्त्ये ! )न ग्रहणं कुर्वाणमपि नीलायंशे निर्णयमुत्पादयति, न पुनर्नीला. धर्थगते क्षणक्षयेडशे इति सांशतामभिदधतः सौगतस्य पूर्वापर. विरोधः सुबोध एव, तथा हेतोचैरुप्यं संशयस्य चोल्लेखद्वयात्मकतामभिदधानोऽपि सांशं वस्तु यन्न मन्यते, तदपि पूर्वापर. विरुद्धं, तथा "परस्परमनाश्लिष्टा एवाणवः प्रत्यासत्तिभाजः समुदिताः घटादिरूपतया प्रतिभासन्ते न पुनरन्योन्यमझाङ्गिभावरूपेणारब्धस्कन्धकार्याः ते " इति हि बौद्धमतं तत्र चामी दोषाः-परस्परमणूनामनाश्लिष्टत्वात् घटस्यैकदेशे हस्तेन धार्यमाणे कृत्स्नस्य घटस्य धारणं न स्यात, उत्क्षेपापक्षेपाश्च तथैव न भवेयुः। जलधारणादीनि च घटस्यार्थक्रियालक्षणं सत्वमङ्गीकुर्वाणैः सौगतैरभ्युपगतान्येव तानि च तन्मतेऽनुपपन्नानि ततो भवति पूर्वापरयोर्विरोधः ।।
[इति बौद्धमते विरोधाः] अथ नैयायिकवैशेषिकमतयोः पूर्वापरतो व्याहतत्वं दयतेसत्तायोगः सत्त्वमित्युक्त्वा सामान्यविशेषसमवायानां सत्तायोगमंतरेणापि सद्भाव भाषमाणानां कथं न व्याहतं वचो भवेत् ! ज्ञानं स्वास्मानं न वेत्ति स्वात्मनि क्रियाविरोधादित्यभिधायेश्वरज्ञानं स्वात्मनि क्रियाविरोधाभावेन स्वसंविदितमिच्छतां कथं न स्ववचनविरोधः? प्रदीपोऽप्यात्मानमात्मनैव प्रकाशयन् स्वात्मनि क्रियाविरोधं व्यपा
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31