Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नेकशः ॥ ६ ॥ इति, [२११-१२६ ] तथा भगवानपि भव्यानां वान्छितार्थविधायकोऽस्ति तस्मात् कल्पवृक्षोपमानो[ प.]मेयत्वं प्रशस्तमिति किं बहुना ! पुनः संसारसागरे निमजतां जनानामेकाधारीभूतत्वात् पोतत्वमपि न विरुद्धं, यत् सिद्धसेनदिवाकरेणाऽपि कल्याणमंदिरस्तोत्रे- संसारसागरनिमजदशेषजन्तोः(न्तु!)। पोता. यमानमभिनम्य जिनेश्वरस्य” (श्लो. १)इत्यादि प्रोक्तत्वात् , सर्वसंपचेहेतुत्वं भगवद्ध्यानधराणां, भगवद्ध्यानपराङ्मुखानां तु स्वप्नेऽप्यसम्भवत्वात् , स्पष्टमेवेत्यलं विस्तरात्, अपरं चेदं पद्यमुत्तमकविकृतं सम्भाव्यते तेनोत्तमकाव्यत्वात् तल्लक्षणान्युच्यन्ते-“काव्यं ध्वनिगुणीभूतं-व्यङ्ग्यं चेति द्विधा मतं वाच्यातिशायिनि व्यङ्ग्ये ध्वनिस्तत् काव्यमुत्तममि "ति साहित्यदर्पणः, [ प. ४. श्लो. १ ] अत्र स शान्तिनाथो वः श्रेयसे भवत्वित्यत्र तच्छब्दोपादानात् स शान्तिनाथो यो गर्भस्थोऽपि शान्तिकरोऽभवदिति सूचनारूपातिशयव्यायोत्पन्ना ध्वनिरेवं विशेषणेष्वपि समस्तखण्डरूपकालंकारगर्भितेष्वपि ध्वनिभावत्वाचोत्तमकाव्यत्वमिव, यत् साहित्यदर्पणःवस्तुवाऽलंकृतिर्वापी [सा. प. ४. श्लो. ९ ] त्यादि, भगवतोऽपि पापव्यपोहौदार्यादिगुणरूपवस्तुध्वनीनां बाहुल्यानार्हति विस्तरश्च, वक्तृश्रोत्रोरालम्बनाशिर्वाक्यप्रयोगरूपवात्सल्यात् वात्सल्यो रसः, यदुक्तं साहित्यदर्पणे-" स्फुटं चमत्कारितया, वत्सलं च रसं विदुः। स्थायिवत्सलतास्नेहः, पुत्राद्यालम्बनं मतम् ।। "इति [ साहि. १. वस्तुवाऽमतिर्वापि द्विधार्थः सम्भवः स्वतः। कवेः प्रौढोक्ति सिद्धो वा तन्निबद्धस्य चति षट् ॥ ९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31