Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ नमः ॥ श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः ।। अन्यमतदूषणम्॥ सुनिश्चितं नः परतंत्रयुक्तिषु, ___ स्फुरन्त याः काश्चन सूक्तिसंपदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविपुषः ॥ १॥ श्री सिद्धसेनपादाः [प्र. द्वा. श्लो. ३०. ] इति अत्र परे प्राहुः, अहो आर्हता! अर्हदभिहिततत्त्वानुरागिभि. युष्माभिरिदमसम्बद्धमेवाविर्भावयाम्बभूवे यदुत-"अस्मदर्शनेष्वपि पूर्वापरयोविरोधोऽस्तीति नबस्मन्मते सूक्ष्मेक्षणैरीक्ष्यमाणोऽपि विरोधलेशोऽपि कचन निरीक्ष्यते, अमृतकर किरण]निकरेष्विव कालिमेति चेत् , उच्यते, भोः ! स्वमतपक्षपातं परिहृत्य माध्यस्थ्यमवलम्बमाननिरभिमानैः प्रतिभाद्यवधानं विदधानैर्निशम्यताम् , तदा वयं भवतां सर्वं दर्शयामः, तथाहि-प्रथमं तावत् , ताथागतसम्मते मते पूर्वापरविरोध उद्भाव्यते, पूर्व सर्व क्षणभङ्गुरमभिधायपश्चादेवमभिदधे, “ अनुकृतान्वयव्यतिरेक कारणं नाकारणं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31