Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वित् इन्द्रियार्थसंन्निकर्षोत्पन्नं ? यदीन्द्रियार्थसन्निकर्षनिरपेक्षं तदे. न्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमित्यत्र सूत्रे सन्निकर्षोपादानं निरर्थकं भवेत् , ईश्वरप्रत्यक्षस्य सन्निकर्ष विनाऽपि भावात् , अथेश्वरप्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नमेवाभिप्रेयेत इति चेत् , उच्यते, तीश्वरसम्बन्धिमनसोऽणुपरिमाणत्वात् युगपत्सर्वार्थैः संयोगो न भवेत् , ततश्चैकमर्थं स यदा वेत्ति, तदा नापरान् सतोऽप्यर्थान् ततोऽमदादिवन्न तस्य कदाऽपि सर्वज्ञता, युगपत्सन्निकर्षासम्भवेन सर्वार्थानां क्रमेण संवेदनात् सर्वज्ञ इति चेन्न, बहुना कालेन सर्वार्थसंवेदनस्य खण्डपरशाविवास्मदादिष्वपि सम्भवात्सर्वेऽपि सर्वज्ञाः प्रसजेयुः, अपि च अतीतानागतानामर्थानां विनष्टानुत्पन्नत्वादेव मनसा सन्निकर्षो न भवेत् , सतामेव संयोगसम्भवात् , तेषां च तदानीमसत्त्वात् , ततः कथं महेश्वरस्य ज्ञानमतीतानागतार्थग्राहक स्यात् ! सर्वार्थग्राहकं च तद् ज्ञानमिष्यते ततः पूर्वापरविरोधः सुबोधः, एवं योगिनामपि सर्वार्थसंवेदनं दुरुद्धरविरोधरुद्धम[व] बोद्धव्यं, कार्यद्रव्ये प्रागुत्पन्ने सति तस्य रूपं पश्चादुत्पद्यते निराश्रयस्य रूपस्य गुणत्वात् प्रागनुपादानमिति पूर्वमुक्त्वा पश्चाच्च कार्यद्रव्ये विनष्टे सति तद्रूपं विनश्यतीत्युच्यमानं पूर्वापरविरुद्धं भवेत् , यतोऽत्र रूपं कार्ये विनष्टे सति निराश्रयं स्थितं सत् पश्चाद्विनश्येदिति ॥ [इति वैशेषिकनैयायिकमते विरोधाः ] सांख्यमते त्वेवं स्ववचनविरोध:प्रकृतिनित्यैका, निरवयवा, निष्क्रिया, अव्यक्ता चोच्यते, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31