Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तथा च तद्यूथिनः पठन्ति---मृतानामपि जन्तूनां, श्राद्धं चेतृप्तिकारणं । तन्निर्वाणप्रदीपस्य, स्नेहः संवर्द्धयेच्छिखाम् ॥५॥ इति [ इति मीमांसकमते विरोधाः ]
एवमन्यान्यपि पुराणोक्तानि पूर्वापरविरुद्धानि सन्देहसमुच्चयाशास्त्रादत्रावतार्या वक्तव्यानि [ इति पुराणविरोधाः ]
तथा नित्यपरोक्षवादिनो भट्टाः स्वात्मनि क्रियाविरोधात् ज्ञानं स्वाप्रकाशकमभ्युपगच्छन्तः प्रदीपस्य स्व परप्रकाशकमङ्गीकुर्वन्तश्च कथं सद्भूतार्थभाषिणः [ इति भट्टमतेविरोधाः ]
तथा ब्रह्माद्वैतवादिनोऽविद्याविवेकेन सन्मानं प्रत्यक्षात् प्रतियन्तोऽपि न निषेधकं प्रत्यक्षमिति ब्रुवाणः कथं न विरुद्धवादिनोऽ. विद्यानिरासेन सन्मात्रस्य ग्रहणात् [इति अद्वैतवादे विरोधाः ]
तथा पूर्वोत्तरमीमांसावादिनः कथमपि देवमनङ्गीकुर्वाणा अपि सर्वेऽपि ब्रह्मविष्णुमहेश्वरादीन् देवान् पूजयन्तो ध्यायन्तो दृश्यन्ते तदपि पूर्वापरविरुद्धमित्यादि। ___अथवा ये ये बौद्धादिदर्शनेषु स्याद्वादाभ्युपगमाः प्राचीन
लोकव्याख्यायां प्रदर्शिताः, ते सर्वेऽपि पूर्वापरविरुद्धतयाऽत्रापि सर्वदर्शने यथास्वं दर्शयितव्याः, यतो बौद्धादय उक्तप्रकारेण स्याद्वादं स्वीकुर्वन्तोऽपि तन्निरासाय च युक्तीः स्फोरयन्तः पूर्वापरविरुद्धवादिनः कथं न भवेयुः ? कियन्तो वादा भो जनाः ! कृत्स्ना विविच्यन्ते इत्युपरम्यते ।
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31