Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
विषय" इति अस्यायमर्थः-ज्ञानमर्थे सत्येवोत्फ्यते न पुनरसति, इत्यनुकृतान्वयव्यतिरेकोऽर्थो ज्ञानस्य कारणं, यतश्चार्थात् ज्ञानमुत्पद्यते, तमेव तद्विषयीकरोति इति, एवं चाभिदधानेनार्थस्य क्षणद्वयं स्थितिरभिहिता, तद्यथा-अर्थात्-कारणात् , ज्ञानंकार्य जायमानं द्वितीये क्षणे जायते, न तु समसमये, कारणकार्ययोः समसमयत्वायोगात्, तच्च ज्ञानं स्वजनकमेवार्थ गृह्णाति नापरं 'नाकारणं विषय' इति वचनात् , तथा चार्थस्य क्षणद्वयं स्थितिबलादायाता, सा च क्षणक्षयेण विरुद्धेति पूर्वापरविरोधः । तथा 'नाकारणं विषय ' इत्युक्त्वा योगिप्रत्यक्षस्यातीतानागतादिरप्यर्थो विषयोऽभ्यघायि, अतीतानागतश्च विनष्टानुत्पन्नत्वेन तस्य कारणं न भवेत् , अकारणमपि च तं विषयतयाऽभिदधानस्य पूर्वापरविरोधः स्यात् , एवं साध्यसाधनयोर्व्याप्तिग्राहकस्य ज्ञानस्य कारणस्वाभावेऽपि त्रिकालगतमर्थ विषयं व्याहरमाणस्य कथं न पूर्वापरण्याघातोऽकारणस्य प्रमाणविषयत्वानभ्युपगमात् , तथा क्षणक्षयाभ्युपगमेऽन्वयव्यतिरेकयोभिन्नकालयोः प्रतिपत्तिर्न संभवति, ततः साध्यसाधनयोस्त्रिकालविषयं व्याप्तिग्रहणं मन्वानस्य कथं न पूर्वापरव्याप्लुतिः, तथा क्षणक्षयमभिधाय - इतः एकनवति कल्पे, शक्त्या मे पुरुषो हतः। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥ ३ ॥[ ] इति, अत्र श्लोके जन्मांतरविषय[ योः ]मेशब्दास्मिशब्दयोः प्रयोगं क्षणक्षयविरुद्धं ब्रुवाणस्य बुद्धस्य कथं न पूर्वापरविरोधः, तथा निरंशं सर्व वस्तु प्राक् प्रोच्य हिंसाविरतिदानचित्तस्वसंवेदनं तु स्वगतं सद्रव्यचेतनत्वस्वर्गपापणशक्त्यादिकं
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31