Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ विग्रहः, " वृतिस्तु " परार्थाभिधानं वृत्तिः, " वर्चते - शब्दः प्रवर्ततेऽनयेति वृत्तिः, " कृत्तद्धितसमासैकशेष सनाद्यंतधातुरूपाः पश्चवृत्तय" श्व, अतः, समस्तानां पदानां समासाः, यथा सकलानि च तानि कुशलानि च सकलकुशलानि कर्मधारयः सकलकुशलान्येव वल्लयः सकलकुशलवल्ल्यः कर्मधारयः, वल्लय इव - वल्लयः, सकलकुशलवल्लयस्तत्पुरुषः, पुष्करं आवर्तयतीति - पुष्करावर्तस्तत्पुरुषः पुष्कर वर्त्तश्चासौ मेघश्च पुष्करावर्त्तमेघः कर्मधारयः सकलकुशलवल्लीनां परिषेचको मेघ इव मेघः सकलकुशलवल्लीपुष्करावर्त्तमेघस्तत्पुरुषः, याजकादिभ्यश्चेति गणग्रहणात् पोष्यपोषकभाव संबंधात् षष्ठीसमस्तत्वं, दुरितान्येव तिमिराणि दुरिततिमिराणि कर्मधारयः, दुरिततिमिराणां नाशको भानुरिव भानुः दुरिततिमिरभानुस्तत्पुरुषः, कल्पवृक्षस्योपमानं यस्य स कल्पवृक्षोपमानः बहुव्रीहिः, भव एव जलनिधिः भवजलनिधिः कर्मधारयः, भवजलनिधौ पोत इव पोतः भवजलनिधिपोतस्तत्पुरुषः, सर्वा चासौ संपत्तिश्च सर्वसंपत्तिः कर्मधारयः, सर्वसंपत्त्या हेतुः सर्वसंपत्तिहेतुः तत्पुरुषः, इतः कर्तृकर्म - क्रियोपदेष्वसमस्तत्वमते च शान्तिश्वासौ नाथश्व शान्तिनाथः कर्मधारयः, इति विग्रहव्याख्या । अथ वाक्ययोजना - किं वाक्यमिति पदानां समूहो " वाक्यं स्याद्योग्यताकांक्षाssसत्तियुक्तः पदोश्चय " इति साहित्यदर्पण: [ प २, श्लो. १], * वाक्यताप्रयोजकपरस्परपदसंबन्धकरणमित्यर्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31