Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
नृतान्याहुरपातकानि ' [वसिष्ठधर्मसूत्र १६-३६. ] तथा अदत्तादानमनेकधा निरस्य पश्चादुक्तं “ यद्यपि ब्राह्मणो हठेन परकीयमा. दत्ते छलेन वा तथापि तस्य नादत्तादानं, यतः सर्वमिदं ब्राह्मणेभ्यो दत्तं, ब्राह्मणानां तु दौर्बल्यात् वृषलाः परिमुञ्जते । तस्मादपहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते, स्वं वस्ते, स्वं ददाती "ति, [ मनुस्मृति १-१०१] तथा ' अपुत्रस्य गति नास्ति' इति [ देवीभागवत ] लपित्वोक्तं ' अनेकानि सहस्राणि कुमारब्रह्मचारिणां दिवंगतानि विप्राणामकृत्वा कुलसंततिम् ।। १ ॥ [ आपस्तंभसूत्रे ] तथा न च मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥ २ ॥ इति स्मृतिगते श्लोके [ मनु. ५-३६. ] यदि प्रवृत्तिनिर्दोषा तदा कथं ततो · निवृत्तिस्तु महाफले 'ति व्याहतमेव, वेदविहिता हिंसा धर्महेतुरित्यत्र प्रकट एव स्ववचनविरोधः-तथाहि धर्महेतुश्चेद्धिसा कथं ! हिंसा चेद्धर्महेतुः कथं ! नहि भवति माता च वन्ध्या चेति, धर्मस्य च लक्षणमिदं श्रूयते--श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यतां । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ३ ॥ इत्यादि [ चाणक्य १-७. ] अचिर्गिप्रपन्नैर्वेदांतवादिभिर्हिता चेयं-हिंसा,-अंधे तमसि मज्जामः पशुभिर्ये यजामहे हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥ ४ ॥ [ ] इति, तथा भवान्तरं प्राप्तानां तृप्तये च श्राद्धादिविधानं तदप्यविचारितरमणीयं,
१ अग्निज्योतिरहशुक्लः षण्-उत्तरायणम् । तत्र प्रयातागच्छन्ति ब्रह्म ब्रह्मविदोजनाः ।। इति अर्चिर्गिः ।
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31