Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सततानारतेत्यमरः, [ अ. को. का. १, को. १३०] व इति, युषी सेवायां [ है. धा. सौ. ७२] सौत्र धातुः, "युष्यसिभ्यां मदिक्, " [ पा. उणादि. १. १३६ ] युष्यत् इति युष्मद् , सर्वादि लिलिंगः, घुमावे द्वितीयादिषु ‘बहुवचनस्य बस्नसा' विति [ पा. ८. १. २१ ] युष्मदोर्वसादेशात् “वः," [पा. ८-१-२१] श्रेय इति, शंसू स्तुतौ च [ है. भ्वा. ५०२ ] " अचो यत्", [पा. ३-१-९७ ] इति कृदन्तप्रत्ययात्, शंसितुं योग्यं शष्यं, प्रकर्षेण शस्यं प्रशस्यं अतिशयार्थे, तद्धितश्च "प्रशस्यस्य श्रः" [पा. ५-३-६०] इति श्रादेशः, अतिशयेन प्रशस्यं श्रेयः चतुर्थंकवचने के श्रेयसे, कोशस्तु- "श्रेयो मुक्तौ शुभे धर्मेऽति [प्रशस्ते च] वाच्यवदि "ति मेदिनी [वर्ग. ३२, श्लो. ४२], शान्तिरिति, शमू उपशमे [ है. दि. ८६] शमनमिति शान्तिः, (स्त्रियां क्तिन् , पा. ३. ३. ९४ इति सूत्रेण) भावे "क्तिन् ” यत्कोशः"शान्ति भद्रे-शमेऽहंती "ति हैमः, [अ. का. दि. श्लो. २०४] नाथ इति नाथ याञ्चोपतापैश्वर्याशिः-षु च [ है. धा. ६७] ( भावे ३. ३. १८ इति सूत्रेण ) घन्, नाथतीति नाथः, यत्कोश:-"पतीन्द्रस्वामिनाथार्या" इत्यभिधानचिंतामणिः[का. ३, लो. २३] इति पदार्थोक्तयः, अथ विग्रहव्याख्यातत्र विग्रह इति किमिति चेत् "वृत्त्यर्थाऽवबोधकं वाक्यं 1. इमानि त्रीणि वाक्यानि पाणिनीयटोकायां वर्तन्ते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31