Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 233
________________ सप्तमोऽध्यायः प्रेत्य चाशुभां गतिम् । गर्हितश्च भवतीति हिंसायां व्युपरमः श्रेयान् ॥ तथा अनृतवादी अश्रद्धेयो भवति इहैव च जिव्हाछेदादीन् प्रतिलभते । मिथ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवामोति प्रेत्य चाशुभां गतिं , गर्हितश्च भवतीति अनृतवचनात् व्युपरमः श्रेयान् ॥ तथा स्तेनः परद्रव्यापहरणासक्तः सर्वस्योद्वेजनीयो भवति । इहैव चाभिघातवघबन्धहस्तपादकर्णनासोतरौष्ठच्छेदनभेदनसर्वस्वहरणादीन् प्रतिलभते प्रेत्य चाशुभां गतिं , गर्हितश्च भवतीति स्तेयात् व्युपरतिः श्रेयसी ॥ तथा अब्रह्मचारी मदविप्रमोद्धान्तचित्तो वनगज इव वासितावञ्चितो विवशो वधबन्धनपरिक्लेशाननुभवति । मोहाभिभूतत्त्वाच्च कार्याकार्यानभिज्ञो न किञ्चित्कुशलमाचरति । पराङ्गनालिङ्गनसङ्गकृतरतिश्चेहैव वैरानुबन्धिनो लिङ्गच्छेदनवधबन्धसर्वस्वहरणादीनपायान् प्रामोति । प्रेत्य चाशुभां गतिमश्नुते, गर्हितश्च भवति, अतो विरतिरात्माहिता ॥ तथा परिग्रहवान् शकुनिरिव गृहीतमांसखण्डोऽन्येषां तदर्थिनां पतत्रिणामिहैव तस्कारादीनामभिभवनीयो भवति । तदर्जनरक्षणप्रयत्नकृताँश्च दोषान् बहूनवामोति न चास्य तृप्तिर्भवति इन्धनरिवाः । लोभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दते । लुब्धोऽयमिति गर्हितश्च भवतीति: तद्विरमणं श्रेयः ॥ एवं हिंसादिष्वपायावद्यदर्शनं भावनीयम् ॥ .. . - हिंसादिषु भावनान्तरप्रतिपादनार्थमाह.. ॥ दुःखमेव वा ॥ १० ॥ हिंसादयो दुःखमेवेति भावयितव्याः ॥ कथं हिंसादयो दुःखम् ! दुःखकारणत्वात् । यथा अन्नं वै प्राणा इति ॥ कार. णस्य कारणत्वाद्वा यथा धनं प्राणा इति । धनकारणमन्नपानं अन्नपानकारणाः प्राणा इति ॥ तथा हिंसादयोऽसद्वेद्यकर्मकारणम् ।

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310